SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। ५४७ मनुष्यैः ये नराः स्वयमुत्पातदर्शनाद्रात्रौ जाग्रति जागरणावजीर्णो लोकः सुसाध्यो भवति । तस्मिंश्च काले भूयो भूयः ॥ १९७ ॥ उपजप्यानुपजपेबुद्धयेतैवं च तत्कृतम् ॥ युक्ते च दैवे युध्येत जयप्रेप्सुरपेतभीः ।। १९८ ॥ उपजप्याः क्रुद्धारयः कुलीनाः स्वराज्याभिलाषिणस्तानुपजपेदिति हेतुः। कर्तरि ५. कर्त्तव्यव्यपदेशमुपजपदित्यर्थः । उपजपेद्राहयेदित्यर्थः । उपनाप आश्रयाद्विश्लेषात्महितानुष्ठानप्रतिपादनम्। तेन चारिणा सुकृतमप्यभिमतदुर्गस्थेन वा किञ्चित्प्रारब्धं बलाटविकपाणिग्राहादिकोपनार्थ मध्यमोदासीनानामन्यतरेण सह संधानमित्यादि बुध्येत । युक्ते च दैवे विजिगीपोरनुकूलदैव इत्यर्थः । नक्षत्रग्रहदैवसुमुहूर्तेषु साधकेषु दृष्टः स्वप्नदर्शननिमित्तेषु चानुगुणेप्वनुलोमवातादिषु जयामच्छन्निर्गतभयो दुर्गस्थानानि यथा प्रथमं योद्धुं गच्छेत् ॥ १९८ ॥ १० साम्ना दानेन भेदेन समस्तैरथवा पृथक् ॥ विजेतुं प्रयतेतारिं न युद्धेन कदाचन ॥ १९९ ॥ न सहसा युध्येत एतावत्प्रथमं विशिष्टस्थापनोपदेशनं सुमुखं च मिथो महाजनकथा सहदारदर्शनादि । दानविधानं द्रव्यानां हिरण्यादीनां प्रीत्युत्पादनाथ प्रतिपादनम् भेदस्तत्कुलीनादेरुपसंग्रहः । ततो विशेषणाच्च तत्रावित्रासनपित्यायकारणम् ॥ १९९ ॥ १५ अनित्यो विजयो यस्मादृश्यते युध्यमानयोः ॥ पराजयश्च संग्रामे तस्माद्युद्धं विवर्जयेत ॥ २० ॥ यस्मान्नायं नियमो दृश्यते यो जयति सोऽत्यन्तबलवानवश्यं तेन यश्च पराजीयते सोऽत्यन्तं दुर्बलश्चावश्यमित्यनित्यो विजयः ॥ २० ॥ त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे ॥ तथा युद्धयेत संपन्नो विजयेत रिपून्यथा ॥ २०१॥ सामादीनामसाधकस्तदा संदिग्धेऽपि नये समानेऽपि किं पुना रूपेण सह तेन प्रकारेण युध्येत येन प्रकारेणात्मनो जयः स्यात् । जये राज्यं वधेऽपि स्वर्ग इति युष्माकमेव जयः परप्रत्यूहकल्पना कूटयुद्धादिप्रकारः अत्यन्तोच्छेदानुसरणपीडनाभ्यां सहसा निष्कार्यः । तथा च व्यास आह "पुनरावर्त्तमानानां निराशानां च जीविनाम् । न शक्यदग्रतः स्थातुं शक्रेणापि धनञ्जय"। १क्ष-भूयः । २ ण-क्ष-त्तेषां । ३ ण-क्ष-न । ४ ड-ण-ग्राहकोपनार्थ । ५ ण-क्ष-विग्रह । ६ फ-बिशेषेण तत्र विशसनम् । ७ ण-क्ष-अन्येभ्यो. For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy