SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ५४१ आयत्यां गुणदोषज्ञस्तदात्वे क्षिप्रनिश्चयः॥ अतीते कार्यशेषज्ञः शत्रुभिर्नाभिभूयते ॥ १८० ॥ एवं हि यो ह्यायत्यामागामिनि काले कार्याणां गुणदोषौ विजानाति नियमेनासौ विमृश्यकारीति स्वयं चारभते विमृश्यकारीति न स दोष एवमर्थं हि ज्ञान तदात्वे वर्तमाने यः क्षिप्रमवधारयति कार्ये न विलम्बते तदात्वे क्षिप्रनिश्चयः क्षिप्रकारी भवति ५ गुणवत्करोति न दोषवत् । अतीते कृते सति कार्ये शेषतो यः कार्यमेव बुध्यते न तत्परिसमाप्तो लभत इति गुणवत्सर्वकार्यफलसंबन्धादभ्यधिकः शत्रुभिर्नाभिभूयेत । न हि धर्मशास्त्रे षाडण्योपदेशः शक्यते कर्तुं दृष्ट इति ॥ १८ ॥ यथैनं नाभिसंदध्युमित्रोदासीनशत्रवः ॥ तथा सर्व संविदध्यादेष सामासिको नयः ॥ १८१॥ दिङ्मात्रमुक्तम् । यथा न तैस्तैः प्रयोगैरभिसंदध्युस्तथा कुर्यादर्जितैरितरैरिवोपायरित्येष सझेपिको न्याय इत्युपसंहारः पाङ्गुण्यस्यातिसंघानविरोधश्चैवं न भाति । कृत्यानामुपजापरक्षणाव्यसनेषु प्रतिकारात्स्वमण्डलसंग्रहाद्गुणोपायानां सम्यक्प्रयोगात्मस्वभ्युत्थानमित्येवं द्रष्टव्यम् ॥ १८१ ॥ यदा तु यानमातिष्ठेदरिराष्ट्रं प्रति प्रभुः ॥ तदाऽनेन विधानेन यायादरिपुरं शनैः ॥ १८२ ॥ इदानीमभियास्यतः कर्माह । यदोपचिकीर्षत्यरिराष्ट्र प्रत्यभिमुखेन तदाऽनेन विधानेन गच्छेदत्वरमाणः । वक्ष्यमाणोपन्यासः सुखावबोधनार्थः ॥ १८२ ॥ मार्गशीर्षे शुभे मासि यायायात्रा महीपतिः ॥ फाल्गुनं वाऽथ चैत्रं वा मासौ प्रति यथाबलम् ॥ १८३ ॥ २. यातव्यापेक्षया बलापेक्षया दीर्घ योद्धुमिच्छन्त्रलप्रायः शारदवासन्तिकसस्यप्राय परराष्ट्रं मार्गशीर्षे यायात् । अत्र हि गच्छन् शारदं फलं गृहादिगतं सुखं गृह्णाति वासन्तं सस्यमुपहरति । कामश्च महान्दुर्गापरोधादिकार्यक्षमो मार्गश्च प्रसिद्धवक्रपथोपभृतकाशोदकवीरुधो न भवन्ति कालश्च नात्युष्णशीतः । उपचितमपि न सस्यं नान प्रयुक्तं प्रियं सस्यत्रयोपघातकालविप्रकर्षापेक्षया च पर आश्रयं संधत्ते । उभयसस्योपघातावकर्षणं २५ सम्यकृतं भवत्यात्मनश्च बलापचय इति उपघातमात्रचिकीर्षया परदेशादेरल्पकालसाध्ये वा १५ १ फ-प्रत्याभि । २ य-ततोप्रयुक्तं । ३ य-कृतो । ४ य-काला । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy