SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः । बदा मन्येत भावेन त्दृष्टं पुष्टं बलं स्वकम् ।। परस्य विपरीतं च तदा यायाद्रि प्रति ॥ १७२ ॥ भावो हर्षपोषकारणं बहुना धनेन संविभक्तता कृष्यादिकर्माणि फलितान्येषामित्यादि हर्षपोषयोः कारणम् । बलं हस्त्यश्वरथपादातं परस्य यदा विपरीतं तदा शत्रु प्रतियायादभिषेणयेच्छत्रुमित्यर्थः । न विग्रहकारणान्येव यानकारणानि । किं तर्हि तान्यपि ५ अपचयश्च हर्षपोषयोः परस्य प्रकृतीनाम् ॥ १७२ ॥ यदा तु स्यात्परिक्षीणो वाहनेन बलेन च ॥ तदाऽऽसीत प्रयत्नेन शनकैः सांत्वयन्नरीन् ॥ १७३ ॥ वाहनं हस्त्यश्वरथं बलं पादातं गोवलीवर्दवद्भेदः । परिक्षीणे बले सति सान्त्वयनरिमासीत । सामोपप्रदानाभ्यामनुकूलनं सान्त्वनम् ॥ १७३ ॥ मन्येतारिं यदा राजा सर्वथा बलवत्तरम् ॥ तदा द्विधा बलं कृत्वा साधयेत्कार्यमात्मनः ॥ १७४ ।। अशक्यं संधानं बलवता रुद्धस्य दुर्गसंश्रयणं च हितं दुर्ग च बलावस्थानमेव द्वैधीभावः स च प्रागुक्तार्थः ॥ ११४ ॥ यदा परबलानां तु गमनीयतमो भवेत् ।। तदा तु संश्रयेत्क्षिप्रं धार्मिकं बलिनं नृपम् ॥ १७५ ॥ गमनीयतमोऽभिभवनीयतमो दुर्गस्थोऽहमिति मन्यते तदा क्षिप्रं दुर्गमुज्झित्वाऽन्यं संश्रयेद्धार्मिकम् । यतः कुसृतिर्नाङ्कयते यस्य यशोभयी स्थिरप्रकृतिः बलिनमित्येतेनैतसुदर्शितम् ॥ १७५ ॥ निग्रहं प्रकृतीनां च कुर्यायोऽरिवलस्य च ॥ उपसेवेत तं नित्यं सर्वयत्नैर्गुरु यथा ॥ १७६ ॥ बलिनमित्युक्तम् । कियता बलेन बलवान्भवतीत्येतदर्थमिदमुच्यते । या दुष्टास्तदीयाः प्रकृतयो यश्च शत्रुरुभयस्यापि निग्रहे समर्थः स आश्रयितव्यः । स गुरुवत्परिसेवितव्यो मानमुज्झित्वा । नैवं मन्तव्यं महाराना एषोऽपि समत्वेन वार्तावह इति । प्रभुवदसौ सेवितव्यः । सर्वयत्नरुपायैः प्रियवचनैरवसरे समीपे संनिधानेन ॥ १७६ ॥ यदि तत्रापि संपश्येदोष संश्रयकारितम् ॥ सुयुद्धमेव तत्रापि निर्विशङ्कः समाचरेत् ॥ १७७ ॥ १क्ष-यत्रोपि । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy