________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३७
अध्यायः]
मनुस्मृतिः । समानयानकर्मा च विपरीतस्तथैव च ॥
तदा त्वायतिसंयुक्तः संधिज्ञेयो द्विलक्षणः ॥ १६४ ॥ समानयानकर्मा यानफलं सहितौ तुल्यौ गच्छावः समानफलभागितया न च त्वयाऽहमुल्लङ्घनीयो यत्ततो लप्स्यते तत्तव मम च भविष्यति। अथवा त्वमन्यतो याह्यहमन्यत्र यास्यामीत्येवमसमानयानकर्मा विपरीतः ॥ १६४ ॥
स्वयंकृतश्च कार्यार्थमकाले काल एव वा ।।
मित्रस्य चैवापकृते द्विविधो विग्रहः स्मृतः ॥ १६५ ॥ स्वयं विग्रहस्य कालो यदावश्यं स्वबलेनोत्सहते परं कर्षयितुमुत्साहयुक्तः प्रकृतयः संहता विवृद्धाश्च स्वकर्मकृप्यादिफलसंपन्नाः परस्यैतान्यपहरिष्यन्ति कर्माणि क्षीण. लब्धप्रकृतिः परः शक्यास्तत्प्रकृतय उपजापेनात्मीयाः कर्तुं स स्वयं विग्रहस्य कालः । १० अकाल एतद्विपरीतः । तत्रापि विग्रहो मित्रस्यापकृते यदि शत्रुणा तदीयं मित्रमपकृतं तदा तद्विचिन्त्याकालेऽपि विग्रहः कर्त्तव्यः । यद्यपि स्वयमपि शत्रोरनन्तरं मित्रं भवति तथापि तेन मित्रेण सहायेन शक्यः शत्रुरपबाधितुम् । शत्रोरनन्तरं मित्रं भवति शत्रोस्तु शत्रुविषयानन्तरत्वम् । पाठान्तरं मित्रेण चैवापकृते । तेन यद्यसौ बाधितो भवति तदाऽकालेऽपि विग्रहः कार्यः । एतद्विग्रहस्य द्वैविध्यं स्वकार्यार्थ मित्रकार्यार्थ च । १५ अथवाऽऽत्मनोऽभ्युच्छ्यादेकः प्रकारो मित्रेणापकृते व्यसनिनि तत्रैव द्वितीयः ॥१६॥
एकाकिनश्चात्ययिक कार्ये प्राप्ते यदृच्छया ॥
संहतस्य च मित्रेण द्विविधं यानमुच्यते ॥ १६६ ॥ एकाकिनो मित्रेण वा संहतस्य निद्वैविध्यं यानस्यासत्यां शक्तावेकाकिनः । अन्यथा संहतस्य । आत्ययिक कार्य परस्य व्यसनोत्पत्तिः। तदा ह्यभिगमनीयतमो भवति परतः। २० कदाचिल्लब्धोच्छ्यो दुरुच्छेद्यः ॥ १६६ ॥
क्षीणस्य चैव क्रमशो दैवात्पूर्वकृतेन वा ॥
मित्रस्य चानुरोधेन द्विविधं स्मृतमासनम् ॥ १६७ ॥ आत्मसंवरणमासनम् । तदपि द्विविधम् । क्षीणस्य बलकोशोपनयेन वृद्धस्यापि शत्रु प्रत्यपेक्षा। आसनं च मित्रानुरोधेन यदि मित्रस्य क्षीणस्य शत्रुणा सह संबन्धो नेदृशो २५ भवति तदीयेन मित्रेण नायमुत्तम्भनीय इत्यतस्तदनुवृत्त्यासीत । स च क्षयो दैवात्पूर्वकृतेन वेत्यनुवादः । वृद्धिक्षयौ सर्वस्यैतेन कारणेन भवतः। तत्र दैवं स्वकृतप्रमादः अतिव्ययशीलता
१क्ष-यानं द्विविधं । २ फ-अभिगमनियमो।
६८
For Private And Personal Use Only