________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३६ मेधातिथिभाष्यसमलंकृता ।
[सप्तमः अमात्यादयः पंचप्रकृतयः द्वादशानां प्रकृतीनां एकैकस्या भवन्ति । अतः षटवाद शका द्विसप्ततिः ॥ १५८ ॥
* अनन्तरमरिं विद्यादरिसेविनमेव च ॥
अरेरनन्तरं मित्रमुदासीनं तयोः परम् ॥ १५९ ॥
विनिगीषुभूम्यनन्तरमरि विद्यात्तथाऽरिमित्रं मित्रं त्वेवमरिं भूम्यनन्तरं विजिगीषोमित्रं भवति । उदासीनस्तयोः परः । अरिमित्रलक्षणं च सहजकृत्रिमयोरपि द्रष्ट५ व्यम् ॥ १५९ ॥
तान्सर्वानभिसंदध्यात्सामादिभिरुपक्रमैः ॥ व्यस्तैश्चैव समस्तैश्च पौरुषेण नयेन च ॥ १६० ॥
संदध्यावशीकुर्यात् । पौरुषनयौ सामदण्डावेव तत्र चोक्तौ सामदण्डौ प्रशंसंतीति ॥ १६० ॥
संधि च विग्रहं चैव यानमासनमेव च ॥
द्वैधीभावं संश्रयं च षड्गुणांश्चिन्तयेत्सदा ॥ १६१ ॥ तत्र हिरण्यादिदानोभयानुग्रहार्थः सन्धिस्तद्विपरीतो विग्रहः । एकान्तताऽप्युच्यते यानमुपेक्षायामासनं सन्धिविग्रहोपादानं द्वैधीभावः । परस्यात्मार्पणं संश्रयः। एते षड्गुणाः ।
एतेषां यस्मिन् गुणेऽवस्थितो मन्येताहं शक्ष्यामि दुर्ग कारयितुं हस्तिनीर्बन्धयितुं खनीः १५ खनयितुं वणिक्पथं प्रयोजयितुं जतुवनं छेदयितुं अदेवमातृकदेशे क्षेत्राणि बन्धयितुमित्येवमादीनि परस्य वित्तानि व्याहतुं बुद्धिविघातार्थ गुणमुपेयादेवं च सति ॥ १६१ ॥
आसनं चैव यानं च संधि विग्रहमेव च ॥ कार्य वीक्ष्य प्रयुञ्जीत द्वैधं संश्रयमेव च ॥ १६२ ॥
एकेन संधायापरस्मिन्याने शक्तं मृषा विगृह्णीयात् । एवमासनमपि संधाय विगृह्य २० च सर्वमेतत्कार्य वीक्ष्य प्रयुञ्जीत । नात्र नियतः कालो यदैव यद्युक्तं मन्येत तदैव
तदाचरेत् । यदि कालनियमो लक्षयितुं न शक्यते उपदेशः किमर्थमवेमाह न शक्यते विशेषो दुर्लक्षः सामान्यं तु सुलक्षणमेतदप्यबुधानामुपयुज्यते ॥ १६२ ॥
संधिं तु द्विविधं विद्याद्राजा विग्रहमेव च ॥ उभे यानासने चैव द्विविधः संश्रयः स्मृतः ॥ १६३ ॥
*[विप्रकृष्टेऽध्वनीयन्न उदासीनो बलान्वितः । स खिलो मण्डलार्थस्तु यस्मिन्यः स मध्यमः॥१॥+
For Private And Personal Use Only