________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
६३५
वणिक्कर्म कुर्यात्प्रदिष्टायां भूमाविति समानम् । मुण्डो जटिलो वा वृत्तिकामस्तापसव्यञ्जनः सन्नगराभ्याशे प्रभूतजटिलमुण्डान्तेवासिशाकं यवमुष्टिं वा मासान्तरितं प्रकाशमश्नीयाद्धर्मव्याजेन गूढं यथेष्टमाहारं तापसव्यञ्जनान्तेवासिनश्चैनं प्रसिद्धयोगैरर्थलाभमग्रे शिष्याश्चादिशेयुः । दाहं चौरमयं दुष्टवधं च विदेशप्रवृत्तमिदपद्य श्वो वा भविष्यतीदं वा राजा करिष्यतीति तस्य गूढमन्त्रिणस्तत्प्रयुक्ताः संपादयेयुः । ये चास्य राज्ञो वंशलक्षणविद्यासंग- ५ वेद्यां जंभकविद्यां मायागतमाश्रमधर्म निमित्तज्ञानं चाधीयाना मन्त्रिणस्तत्र राजा एतत्पञ्चसंस्थायतैर्मन्त्रिभिः स्वविषयेऽवस्थापयेत् । मन्त्रिपुरोहितसेनापतियुवराजदौवारिकान्तर्वेशिकादिषु सव्यपदेशवेषशिल्पभाषाविदो जनपदापदेशेन मन्त्रिणः संधारयेत् । तथा कुब्नवामनकिरातमूकजडबधिरान्धनटनर्तकगायनादयः स्त्रियश्चाभ्यन्तरचारिण्योऽटव्यां वनेचराः कार्या ग्रामे ग्रामीणकादयः पुरुषव्यापारार्थाः स्वव्यापारपरंपराः परस्परं चैते बोद्धव्यास्ता- १० शैरेव तादृशाः । वारिसंचारिणस्था गूढाश्च गूढसंज्ञिताः ।
एवं पञ्चवर्ग प्रकल्प्य परस्यात्मनश्चात्मीयादेव पञ्चवर्गामन्त्रिपुरोहितादीनामनुरागापरागौ विद्यात् प्रवर्तत । तथा रानमण्डलप्रचारको माण्डलिकः संधिविग्रहादौ कस्मिन्प्रचारे इति ॥ ५५ ॥
मध्यमस्य प्रचारं च विजिगीषोश्च चेष्टितम् ॥
उदासीनप्रचारं च शत्रोश्चैव प्रयत्नतः ॥ १५६ ॥ एतस्मिन्राजमण्डल इमाश्चतस्रो रानप्रकृतयो मुख्या भवन्ति । विजिगीषुररिर्मध्यम उदासीन इति । तत्र एष तयो राजा प्रकृतिसंपन्नोऽहमेवंविधां पृथिवीं विजेष्येऽम्युत्थितः स विजिगीषुः उत्साहशक्तियोगात् । शत्रुस्त्रिविधः सहजः प्राकृतः कृत्रिमः । स्वभूम्यनन्तर इति मध्यमोऽनयोररिविजिगीष्वोरसंहतयोनिग्रहसमर्थनसंहतयोरुदासीनः । अरिविजिगीषुमध्यमानामसंहतानां निग्रहसमर्थो न तु संहतानाम् ॥ १५६ ॥ २०
एताः प्रकृतयो मूलं मण्डलस्य समासतः ॥
अष्टौ चान्याः समाख्याता द्वादशैव तु ताः स्मृताः ॥ १५७ ॥ एताः स्मृताः । एता मूलप्रकृतयो मण्डलस्य व्याख्याताः । अष्टौ चान्याः। आसां चतसृणां प्रकृतीनामेकैकस्याः प्रकृतेर्मित्रममित्रं चेति द्वे द्वे प्रकृता एता अष्टौ आद्याश्चतस्र एवमुभयतो द्वादश भवन्ति ॥ १५७ ।।
अमात्यराष्ट्रदुर्गार्थदण्डाख्याः पञ्च चापराः॥
प्रत्येकं कथिता ह्येताः संक्षेपेण द्विसप्ततिः ॥ १५८ ॥ १ फ-चयो।
For Private And Personal Use Only