________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५३४
मेधातिथिमाष्यसमलंकृता ।
[सप्तमः
वेण्यां गूढेन शस्त्रेण विदूरथं तस्मादेतानि विखंभस्थानानि यत्नतः परीक्षेत । मुण्डनाटिलकुहकप्रतिसंसर्ग बाह्यदासीभिरन्तःपुरदासीनां प्रतिषेधयेत् । प्रणिधीनां च कार्पटिकादीनां वा परस्पराभिवेष्टितं चिन्तयेत् ॥ १५४ ॥
*कृत्स्नं चाष्टविधं कर्म पञ्चवर्ग च तत्त्वतः ॥
अनुरागापरागौ च प्रचारं मण्डलस्य च ॥ १५५ ॥
अकृतारम्भकृतानुष्ठानं अनुष्ठितविशेषणं कर्मफलसंग्रहः। तथा सामभेददानदण्डमेत. दष्टविधं कर्म । अथवा वर्णिपथः उदकसेतुबन्धनं दुर्गकरणं कृतस्य वा तत्संस्कारनियमः हस्तिबन्धनं खनिखननं शून्यनिवेशनं दारुवनच्छेदनं चेति । अपरे त्वाहुः
" आदाने च विसर्गे च तथा प्रैपनिषेधयोः । पञ्चमे चार्थवचने व्यवहारस्य चेक्षणे ॥ १० " दण्डशुध्योः सदा युक्तस्तेनाष्टगतिको नृपः । अष्टकर्मा दिवं याति राजा शत्रुभिरर्चितः॥"
इत्यौशनसौ श्लोकौ । तत्र स्वीकरणमादानम् । बलीनां भृत्येभ्यो धनदानं विसर्गः । प्रैषो दुष्टत्यागः । अर्थाधिकृतानां मतिप्रवृत्तिनिरोधो निषेधः । असरप्रवृत्तिनिषेधश्चार्थवचनम् । वर्णाश्रमाणां स्वकर्मसंशयव्यवहारावेक्षणम् । परस्पराभियोगे दण्डनिपातनं पराजितानां च प्रमादस्खलिते तु प्रायश्चित्तमित्येतदष्टविधं कर्म ।
पञ्चवर्गः कापटिकोदास्थितगृहपतिकवैदेहिकतापसव्यञ्जनाः परमधर्मज्ञाः प्रगल्भछात्राः कापटिकास्तानथमानाम्यामुपसंगृह्य मन्त्री ब्रूयात् । राजानं मां च प्रमाणं कृत्वा यत्र यदकुशलं तत्तदानीमेवाच्छातव्यं त्वयेति । प्रव्रज्यायाः प्रत्यवसित उदास्थितः स च प्रज्ञाशौचयुक्तः सर्वान्नप्रदानसमर्थायां भमौ प्रभूतहिरण्याया दासकर्म कारयेत् । कृषिकर्म
फलं तच्च सर्वप्रनजितानां प्रासाच्छादनावसथान्प्रतिविद्ध्यात् । तेषां ये वृत्तिकामास्तानुप२. जपेदेवमेतेनैव वृत्तेन राजार्थश्चरितव्यो भक्तवेतनकाले चोपस्थातव्यमिति । सर्वप्रवनिताः
स्वं स्वं कर्मोपजपेयुः । कर्षको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो गृहपतिव्यञ्जनः स कृषिकर्म कुर्याद्यथोक्तायां भूमाविति । वाणिजिको वृत्तिक्षीणः प्रज्ञाशौचयुक्तो वैदेहिकव्यञ्जनः स
* वने वनेचराः कार्याश्रमणाटविकादयः॥
परप्रवृत्तिज्ञानार्थं शीघ्राचारपरंपराः ॥१॥] 1 परस्य चैते बोद्धव्यास्तादृशैरेव तादृशाः॥
चारसंचारिणः संस्था शठाश्चागूढसंशिताः॥२॥ १क्ष-कृषिवाणिज्य ।
For Private And Personal Use Only