________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः ।
५३१
तीक्ष्णमृदुता नित्यमभ्यसनीया । तादृशो राजा प्रजानां संमतो भवत्यभिप्रेतम् ॥ १४१॥
अमात्यमुख्यं धर्मज्ञ प्राज्ञं दान्तं कुलोद्गतम् ॥
स्थापयेदासने तस्मिन्खिनः कार्येक्षणे नृणाम् ॥ १४२ ॥ प्रजानां संबन्धिनि कार्यदर्शने खिन्नः शान्तः । धर्मज्ञादिगुणयुक्तं सर्वसहममात्यं ५ तस्मिन् कार्येक्षणे नियुञ्जीत । न पुनस्तस्मिन्नेव सिंहासने ॥ ११२ ॥
एवं सर्व विधायेदमितिकर्तव्यमात्मनः ॥
युक्तश्चैवाप्रमत्तश्च परिरक्षेदिमाः प्रजाः ॥ १४३ ॥ सहायसंग्रहप्रभृत्युक्तस्यार्थस्यैवमिति परामर्शनं विधाय कृत्वा इतिकर्तव्यमुपकारकमितिकर्तव्यमुच्यते । युक्तस्तत्परः । अत एवाप्रमत्तः । अथवा बुद्धयस्खलन- १० मप्रमत्तता सर्वकाले । एवं प्रजाः परिरक्षेत् ॥ १४३ ॥
विक्रोशन्त्यो यस्य राष्ट्राध्रियन्ते दस्युभिः प्रजाः ॥
संपश्यतः समृत्यस्य मृतः स न तु जीवति ॥ १४४।। पूर्वोक्तयोरप्रमादयोरन्यथात्वे दोषमाह । यदि सम्यग्गुल्मस्थानानि प्रति न जागर्ति तदा छिद्रान्वेषिभिर्दस्युभिः चौरैः प्रजा ह्रियन्ते । तासु किं करिष्यति । अतस्तादृशो राजा १५ मृत एव । जीवितं मरणमेव । अतोऽप्रमत्तेन भवितव्यम् । विक्रोशन्त्यः आक्रन्दत्यः । ह्रियन्ते संपश्यतः । सभृत्यस्य निर्दिष्टं द्रक्ष्यते । केवलं च भृत्यास्तदीयाः पश्यन्ति नानुधावन्ति मोक्षयन्ति । सर्वे ते मृतकल्पाः ॥ १४४ ॥
क्षत्रियस्य परो धर्मः प्रजानामेव पालनम् ॥
निर्दिष्टफलभोक्ता हि राजा धर्मेण युज्यते ॥ १४५॥ २० प्राप्तं फलं भुङ्के राजा स धर्मेण युज्यते । अन्यथाऽनुग्राहकाणामेव पालनं कुर्वन्प्रत्यवैति ॥ १४५ ॥
उत्थाय पश्चिमे यामे कृतशौचः समाहितः ॥
हुताग्निर्ब्राह्मणाचार्घ्य प्रविशेस शुभां सभाम् ॥ १४६ ॥ . पश्चिमो यामो ब्राह्मो मुहूर्तः । यत आह । कृतशौचः समाहितः। हुतानिरिति २५ न च ब्राह्मे मुहुर्ते होमविधानमस्ति । तदा हि चतुर्मुहूर्तशेषा रात्रिभवति । होमश्च व्युष्टायां
१ फ-न जानाति । ड-क्ष-न प्रतिजानामी।
For Private And Personal Use Only