SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९३० मेधातिथिभाष्यसमलंकृता । [सप्तम तथा कुर्याद्यथा क्षुधाऽस्य विषये श्रोत्रियो नावसीदति ॥ १३४ ॥ यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा ॥ तस्यापि तत्क्षुधा राष्ट्रमचिरेणैव सीदति ॥ १३५ ॥ अनन्तरविधेरतिक्रमफलमेतत् ॥ १३५ ॥ श्रुतवृत्ते विदित्वाऽस्य वृत्तिं धभ्यो प्रकल्पयेत् ॥ संरक्षेत्सर्वतश्चैनं पिता पुत्रमिवौरसम् ॥ १३६ ॥ धा वृत्तिं यया कुटुम्बधर्मस्यावसादनं न भवति । वृत्तिं प्रकल्प्य सर्वतो रक्षेचौरादिभ्यः । स्वयमधिकव्ययाच ॥ १३६ ॥ संरक्ष्यमाणो राज्ञाऽयं कुरुते धर्ममन्वहम् ॥ तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ॥ १३७ ॥ धार्मिकश्रोत्रियरक्षायाः फलमेतदायुविणराष्ट्रवृद्धिः ॥ १३७ ॥ यत्किंचिदपि वर्षस्य दापयेत्करसंज्ञितम् ॥ व्यवहारेण जीवन्तं राजा राष्ट्र पृथग्जनम् ॥ १३८ ॥ कृषिधनप्रयोगक्रयविक्रयादिव्यवहारेण जीवन्तं पृथग्जनं ब्राह्मणाच्छ्रोत्रियादन्यं १५ करं दापयेत् । करसंज्ञासंजाताऽस्य करसंज्ञितम् ॥ १३८ ॥ कारुकान शिल्पिनश्चैव शुद्भांश्चात्मोपजीविनः ॥ एकैकं कारयेत्कर्म मासि मासि महीपतिः ॥ १३९ ॥ शिल्पमात्रोपनीविनस्तान्मासं मासमेकमहः कर्म कारयेत् । आत्मोपजीविनश्च शूद्रा वेशभारवाहादयः ॥ १३९ ॥ २० नोच्छिन्द्यादात्मनो मूलं परेषां चातितृष्णया । उच्छिन्दन् ह्यात्मनो मूलमात्मानं तांश्च पीडयेत् ॥ १४०॥ करशुल्कादेरग्रहणमात्मनो मूलछेदः अतिवहुग्रहणं परेषा तच्च तृष्णया भवतीत्यनुवादः । आत्मनो मूलच्छेदेनात्मपीडा भवति कोशक्षयात् अतस्तेऽपि पीड्यंते । उप स्थिते विग्रहे क्षीणकोशशक्तिररिभिरपरुद्धोद्धरणेऽवश्यं भवेत् । सा च तेषां महती पीडा । २५ यत्तु सार्वकालिकं करग्रहणं संपादयतो नाखेदिता भवति ॥ १४ ॥ तीक्ष्णश्चैव मृदुश्च स्यात्कार्य वीक्ष्य महीपतिः ॥ तीक्ष्णश्चैव मृदुश्चैव राजा भवति संमतः ॥ १४१ ॥ For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy