________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः।
५२९
शाकादि धनादि च । योगक्षेममरण्ये कान्तारे वा गच्छतो राजभयं चौरभयं निश्चौरता वेत्यादि । एतदपेक्ष्य वणिग्भ्यः करा आदातव्याः। " वणिग्भिर्दापयेत्करान् " इति पाठो युक्तः। गत्यादिनियमेन कर्मसंज्ञाया अभावात् । दण्डवचनो वा धातुस्तदा दण्डिवविकर्मकत्वम् ॥ १२८ ॥
* यथाल्पाल्पमदन्त्याचं वार्योकोवत्सषट्पदाः ॥ तथाल्पाल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः ॥ १२९ ॥ यथा फलेन युज्येत राजा का च कर्मणाम् ॥
तथावेक्ष्य नृपो राष्ट्र कल्पयेत्सततं करान् ॥ १३० ॥ क्षीणकृपेन्यूनः करो ग्रहीतव्य इत्येवमर्थमेतत् । वार्योकसो जलौकसः । षट्पदा भ्रमराः । यथा ते स्वल्पमाददानाः परिपुष्टा भवन्ति तथा राज्ञा मूलाछेदो न १० कर्तव्यः ॥ १२९॥
एतदेवाह । कर्मणां का वाणिजकः । राजा च फलेन युज्येत । तथा करान्कल्पयेत्न परिमाणानियमकारणमस्ति । यत्र महान्लामस्तत्राधिकमप्युक्तपरिमाणातिक्रमण ग्रहीतव्यम् ॥ १३० ॥
पञ्चाशद्भांग आदेयो राज्ञा पशुहिरण्ययोः॥
धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ १३१ ॥ मूल्याधिकयोः पशुहिरण्ययोः पश्चाशद्भागो ग्राह्यः । धान्यानां भागविशेषः सुकरदुष्करापेक्षया मन्तव्यः पंचाशत्पूरणः पञ्चाशः । विंशत्यादिम्य इति पक्षे तमट् । पञ्चशद्भाग इति पाठे द्विभागादिवत्संख्यान्तरम् ॥ १३१ ॥
आददीताथ षड्भागं द्वांसमधुसर्पिषाम् ॥
गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ १३२ ॥ द्रुमशब्देन वृक्षा उच्यन्ते । शेष प्रसिद्धम् । एतेषां षष्ठो भागो लाभाद्रहीतन्यः ॥ १३२॥
पत्रशाकतृणानां च चर्मणां वैदलस्य च ॥ मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ १३३॥ म्रियमाणोऽप्याददीत न राजा श्रोत्रियात्करम् ॥
न च क्षुधाऽस्य संसीदेच्छ्रोत्रियो विषये वसन् ॥ १३४ ॥ * फ-पुस्तके "यथा फलेन" इति पठित्वा तदनन्तरं “यथाल्पाल्पम् " इति दर्शितः । १ण-पञ्चाशो।
१५
For Private And Personal Use Only