SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता । [ सप्तमः राज्ञो हि रक्षाधिकृताः परस्वादायिनः शठाः ॥ भृत्या भवंति प्रायेण तेभ्यो रक्षेदिमाः प्रजाः ॥ १२४ ॥ परस्वमादातुं शीलं येषां ते परस्वादायिनः शठाः सम्यकारिणः प्रायेणाधिकृताः सन्तो भवन्ति । प्राकशुचयोऽपि रक्षन्ति वित्तानि । अतः प्राक्शुचित्वानुमानेनोपेक्षणीयाः। यत्नतः प्रतिजागरितव्याः। तेभ्यो रक्षेदिमाः प्रजाः। न केवलं राजार्थनाशः अनवेक्षया यावत्प्रजा अपि निर्धनीकुर्वन्ति ॥ १२४ ॥ ये कार्यिकेभ्योऽर्थमेव गृह्णीयुः पापचेतसः ॥ तेषां सर्वस्वमादाय राजा कुर्यात्मवासनम् ॥ १२५ ॥ ये रक्षाधिकृताः कार्यिकेभ्यो व्यवहर्तृम्यो व्यापारवद्भयो हललेशोदेशिकया १० दण्डयन्ति जनपदांस्तेषां सर्वस्वहरणप्रवासने राजा कुर्यात् ॥ १२५ ॥ राजकर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च ॥ प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्मानुरूपतः ॥ १२६ ॥ युक्तानां नियुक्तानां स्त्रीणामन्तःपुरदास्यादीनां प्रेष्यजनस्य दोलकवाहादेः प्रत्या वृत्तिं कल्पयेन्न सांवत्सरीयं सकृद्दद्याद्रामं तदेकदेशं वा । स्थानकानुरूपतः १५ प्रधानं नियोगः शय्यारक्षादि कर्म शरीरव्यापारस्तदनुरूपेण वृत्तिगया। प्रधाने स्थाने स्वल्पेऽपि कर्मणि महती वृत्तिर्निकृष्टे स्थाने मटरत्याप कर्मणि स्वल्पेतदुभयानुरूपम् ।।१२।। पणो देयोऽवकृष्टस्य पदुत्कृष्टस्य वेतनम् ॥ पाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः ॥ १२७॥ अवकृष्टः संमार्जनशोधनविनियुक्तस्तस्य भक्तार्थ पणो देयः । उत्कृष्टस्य २० षट्सु षट्सु मासेषु गतेष्वाच्छादवस्त्रम् । धान्यद्रोणश्च मासिकः । चतुराढको द्रोणः । पणपरिमाणं दक्ष्यति । वृत्तिकल्पनार्था एते ॥ १२७ ॥ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् ॥ योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ॥ १२८ ।। करग्रहणविधिः कियता मूल्येन क्रीतमेतत्कियच्च विक्रीयमाणं लभते कियता च २५ कालेन विक्रीयते कियत्प्रतिभावेन नश्यत्यथ नेत्येवमादिरूपक्रयविक्रयपरीक्षा ! अध्वानं चिराचिरगमनप्राप्यताम् । भक्तं सक्त्वोदनादिमूलन । परिव्ययस्तदुपकरणं सर्पिः सूप१ण-नलेशोद्देशिकया । २ फ-राजा। ३ प-दोदक । ४ प-किंप्रतिभवेन न नश्यति। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy