SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः। विंशतीशस्तु तत्सर्वं शतेशाय निवेदयेत् । शंसेग्रामशतेशस्तु सहस्रपतये स्वयम् ॥ ११८ ॥ ये ग्रामदोषा एकग्रामाधिकृतेन न शक्यन्ते समाधातुं तान्दशेशाय निवेदयेत् । एवमशक्ती यावत्सहस्रपतिर्विज्ञाप्यः ॥ ११७ ॥ ॥ ११८ ॥ यानि राजप्रदेयानि प्रत्यहं ग्रामवासिभिः ॥ अन्नपानेन्धनादीनि ग्रामिकस्तान्यवाप्नुयात् ॥ ११९ ॥ एकाग्रामाधिकृतस्य वृत्तिरियम् । ग्रामिको प्रामाधिकृतस्तान्यवानुयाद्गृह्णीयात् । वृत्त्यर्थं राज्ञे प्रदातव्यानि ग्रामवासिभिः । अन्नादीनि तु धान्यादेः षष्ठाष्टमभागादिः यथा वक्ष्यति “ धान्येऽष्टमं विशाम् ' ( अ. १०। १२० ) इत्यादि ॥ ११९ ॥ दशी कुलं तु भुञ्जित विंशी पञ्चकुलानि च ॥ ग्रामं ग्रामशताध्यक्षः सहस्राधिपतिः पुरम् ॥ १२० ॥ दशसु ग्रामेष्वधिकृतो दशी । एवं विंशी। छान्दसः शब्दसंस्कारः । कुलं ग्रामैकदेशः । क्वचिद्धंट्ट इति प्रसिद्धः क्वचिदुष्ट इति । एतदेव पञ्चगुणं विंशतिग्रामेष्वधिकृतः सर्व ग्रामशताध्यक्षः । पुरं नगरं सहस्रशः स्थानकानुरूपेण वृत्तिं कल्पेतेत्येतभ्यम् ॥ १२० ॥ तेषां ग्राम्याणि कार्याणि पृथक्कार्याणि चैव हि ॥ राज्ञोऽन्यः सचिवः स्निग्धस्तानि पश्येदतान्द्रतः ॥ १२१ ॥ तेषां ग्रामकार्येष्वितरेतरं विप्रतिपत्तिः । अन्यः स्वकार्येऽन्यः सचिवों महत्तमः । स्निग्धो रागद्वेषवनितो दर्शनाय नियोक्तव्यः ॥ १२१॥ नगरे नगरे चैकं कुर्यात्सर्वार्थचिन्तकम् ॥ उच्चैःस्थानं घोररूप नक्षत्राणामिव ग्रहम् ॥ १२२ ॥ उच्चैःस्थानं प्रधानभूतमित्यर्थः । घोररूपं प्रतापवन्तम्। नक्षत्राणामिव ग्रह अंगारक हस्त्यश्वादिबलसंपन्नम् ॥ १२२ ॥ स ताननुपरिकामेत्सर्वानेव सदा स्वयम् ॥ तेषां वृत्तं परिणयेत्सम्यग्राष्ट्रेषु तच्चरैः ।। १२३ ॥ स नगराधिकृतस्तान्सर्वानपि पतीननुपरिक्रामेत्सबलेन पूरयेत् ! सति प्रयोजने तेषां सर्वेषामधिपतीनां नटूनं सम्यक् परिणयेत् सम्यग्रूपतया परिजानीयात् । कै राजचरैः कार्पटिकादिभिः ॥ १२३ ॥ १ण-क्ष-तु। २ण-हाट । ३क्ष-उष्ट । ४क्ष-प्रामाणि। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy