SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेधातिथिभाष्यसमलंकृता। [ सप्तमः ये राजानमभिद्रुह्यन्ति तेषां ये सुदृवान्धवाः संबन्धोपसर्पिणो वा न ते विनाशयितव्याः । यदि न तत्कार्याभ्यन्तराः । य एव दुष्टास्त एव निग्राह्या न तत्संबन्धिन इत्येतन्निर्दातृदृष्टान्तेन प्रतिपाद्यते । यथा धान्यकक्षयोः सहोत्पन्नयोरत्यन्तसहितयोरपि नैपुण्येन धान्यं रक्षति कक्षमुद्धरति । एवं स्वराष्ट्रे यावन्तस्तेषां सुहृदावपि तयोर्दोष५. वान्यः स एव निग्राह्यो न यः सुसङ्गतोऽपि । अतः साध्वसाधुविवेकेन साधवो रक्ष्या असाधवो निग्राह्याः ॥ १११ ॥ मोहाद्राजा स्वराष्ट्रं यः कर्शयत्यनवेक्षया ॥ सोऽचिराद्धश्यते राज्याजीविताच सबान्धवः ॥ ११२ ॥ यस्तु राजा पूर्वोक्तविवेकमकृत्वा मोहेनानवेक्षया स्वराष्ट्र कर्शयति स दण्डैः सह भ्रश्यत्यचिराद्राज्याज्जनपदानुरागेण प्रकृतिकोपेन जीविताच साहसिकैरेकाकिभिरपि जीवितनिरपेक्षैर्हन्यते ॥ ११२ ॥ शरीरकर्षणात्माणाः क्षीयन्ते प्राणिनां यथा । तथा राज्ञामपि प्राणाः क्षीयन्ते राष्ट्रकर्षणात ॥ ११३ ॥ स्वराष्ट्रेऽत्यन्तमवहितेनानुराग उत्पादनीयस्तद्धि शरीरस्थानीयं शरीरे कर्शितेऽपथ्यभोजनरुक्षभोजनादिभिर्यथा प्राणा उत्क्रामन्ति एवं राष्ट्रकर्शनादपि ॥ ११३ ॥ राष्ट्रस्य संग्रहे नित्यं विधानमिदमाचरेत् ॥ सुसंगृहीतराष्ट्रो हि पार्थिवः सुखमेधते ॥ ११४ ॥ संग्रहो रक्षति धनं सुसंगृहीतं रक्षाविधानेन वशीकृतं परिपालितं वा येन स्वराष्ट्र २० स पार्थिवः सुखमेधते ॥ ११४ ॥ द्वयोस्त्रयाणां पञ्चानां मध्ये गुल्ममधिष्ठितम् ॥ तथा ग्रामशतानां च कुर्याद्राष्ट्रस्य संग्रहम् ।। ११५॥ द्वयोमा॑मयोर्मध्ये गुल्मं कुर्यात् । गुल्मो रक्षितृपुरुषसमूहस्तेनैकाधिष्ठितं संग्रह कुर्यात् । तद्युक्तमधिष्ठातारं पुरुषं कुर्यात् । अधिकारिसंग्रह इहोच्यते । एवं त्रयाण २५ पञ्चाना च । अथवा राजभाव्यार्थग्रहणस्थानं संग्रहः ॥ ११५ ॥ ग्रामस्याधिपतिं कुर्याद्दशग्रामपति तथा ॥ विंशतीशं शतेशं च सहस्रपतिमेवं च ॥ ११६ ॥ एकैकस्मिन् ग्रामेऽधिपतिं कुर्यात् । तदुपरि दशग्रामपतिम् । एवं सर्वत्र ॥ ११६ ॥ ग्रामदोषान्समुत्पन्नान् ग्रामिकः शनकैः स्वयम् ॥ शंसेनामदशेशाय दशेशो विंशतीशिने ॥ ११७॥ १ण-यावत्यन्तसुहृदावपि । २ फ-कर्शयति । ३ ख-ड-ण-क्ष-सम्रश्यति । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy