________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः।
९२०
बकवाञ्चिन्तयेदन्सिंहवच्च पराक्रमेत् ॥
वृकवचावलुम्पेत शशवच्च विनिष्पतेत् ॥ १०७॥ ___ यथा अप्सु दुर्गाश्रयमपि मत्स्यबलं स्वभावतस्तद्ग्रहणार्थं बकः पर्युदासनपरतया तद्हणोपायं ध्यानादियोगादासादयति एवमर्थचिन्ताभिगोगातिशयेन सुदुष्प्रापा अप्या आसाद्यन्त इति मन्वानो निर्वेदं गच्छेत् । यथा च शशोऽल्पकायत्त्वाच्छनोति निष्पतितुमुपरि संघादपि तथा एकोऽप्यसहायः सर्वतः समुत्थितसामन्तप्रकोपोऽशक्तोऽवस्थातुं दुर्गेऽरिसंपातं कृत्वा तस्माद्विनिष्पतेद्गुणवति संश्रयार्थम् । यथा च वृकः पशुग्रहणाभियोगाद् बालप्रमादमासाद्यावलुम्पते एवं स्वोरक्षापर इति मत्वा तद्ग्रहणाभियोगो न मोक्तव्यो भविष्यति स कालो यत्रायं वृकवदवलुपिष्यते । यथा सिंहो महाकायानपि हस्त्यादीन्हन्ति पराक्रमोत्साहशक्तियोगात् एवं महदरिबलमिति न भेतव्यं अल्पप्राणेनापि १० कदाचिदुत्साहवतां महाप्राणो निहन्यत इति ॥ १०७ ॥
एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः॥
तानानयेदशं सर्वान्सामादिभिरुपक्रमैः॥ १०८॥ ये परिपन्थिनः प्रतिपक्षतया वर्तन्ते ते वशमानेतव्याः । न त्वानुकूल्येन ये वर्तनते । तेऽपि सामादिभिः पूर्व न प्रथमत एव दण्डेन ॥ १०८ ॥
. यदि ते तु न तिष्ठेयुरुपायैः प्रथमैत्रिभिः ।।
दण्डेनैव प्रसयैतांश्छनकैर्वशमानयेत् ॥ १०९॥ . सामादिमिरशक्या दण्डेन वशमानेतन्या इति यदुक्तं तदिदं दण्डेन प्रसह्यामिभूय शनकैर्यादृशो दण्डोपक्रमस्तेन । न साहसिकतया ॥ १०९ ॥
सामादीनामुपायानां चतुर्णामपि पण्डिताः॥
सामदण्डौ प्रशंसन्ति नित्यं राष्ट्राभिवृद्धये ॥ ११० ॥ वक्ष्यमाणानां सामादीनामुपायानां सामदण्डौ निर्गद्येते प्रशस्यतया सति सान्नि क्षिप्रं कंपो न भवति दण्डे तु सर्वसिद्धिः ॥ ११० ॥
यथोद्धराति निदोता कक्ष धान्यं च रक्षति ॥
तथा रक्षेनृपो राष्ट्र हन्याच परिपन्थिनः॥ १११ ॥ १ ड-क्ष-पर्युदासनापरतया । २ ड-क्ष-दि-मुहुःप्राया अध्यर्या । ३ ण-मध्यादपि; क्ष-निष्पतितुं परिसंध्यादपि । ४ ड-फ-समुत्थितामासं च; फ-समुत्थिन । ५ ड-क्ष-पशुग्रहणाभिलाषात् अभियोगान् बले प्रमादमासाधावलुप्यते; ण-बालप्रमादमासाद्य; फ-अद्यचलग्नमांसाधर । ६ फ-स्व । ७ण-निहन्यात् । ८फ तइंडेन प्रसह्य भूयः आसन्न-शनकर्या वद्धा। ९ उ-ण-क्ष-निवार्यत । प्रशस्यतया सविवक्षया सान भवंति दंडे तु सर्वसिद्धि।
For Private And Personal Use Only