SearchBrowseAboutContactDonate
Page Preview
Page 567
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ·५२४ मेधातिथिभाष्यसमलंकृता । नित्यमुद्यतदण्डस्य कृत्स्नमुद्विजते जगत् ॥ तस्मात्सर्वाणि भूतानि दण्डेनैव प्रसाधयेत् ॥ १०४ ॥ अनन्तरस्य फलम् । सर्वे जगदुद्विजते विभेति प्रतापख्याति भर्वति चेति । तस्मात्सर्वाणि भूतानि स्वप्रकृतीः परांश्च दण्डेनैव प्रसाधयेत् । एवं यत्नवतो भीतः शत्रवो ५ नर्मन्त्ययत्नेनैव ॥ १०४ ॥ Acharya Shri Kailassagarsuri Gyanmandir अमाययैव वर्त्तेत न कथंचन मायया ॥ बुध्येतारिमयुक्तां च मायां नित्यं सुसंवृतः ॥ १०५ ॥ [ सप्तमः माया छद्म । तेन न वर्तेत अविश्वसनीयस्तथा स्यात् । न च परप्रकृती - रज्ञातरूपा उपजपेत् । अरिणा प्रयुक्तां च मायां यथावद्बुध्येत । बुद्धया ज्ञात्वोपजापं : १० कुर्यात् । तत्र कृत्यपक्षश्चतुर्विधः । क्रुद्धलुब्ध भीतावमानितैः । तत्र येन कृतं शिल्पं किंचिदुपकारो वा दर्शितः तौ विप्रलभ्येते प्रसादेन नियोज्येते अवमन्येते वा । तदर्थोऽपि तत्समानः शिल्पोपकारी क्रुध्यति नास्यास्मदीयं शिल्पमुपकारो वोपयुज्यते । तादृशा उपजापसहा भवन्ति । तथा वाल्लभ्येनोपगृहीतः पश्चान्मनाधिकाराभ्यां भ्रष्टः प्रवासितबन्धुतद्वल्लभः प्रसभमभिपूज्य स्वीकृतः सकुल्यरैन्तर्हितः सर्वस्वमाहारितस्तत्समानकर्मविद्योऽन्यः १५ पूज्यते सोऽवधीयते इत्येवमादिक्रुद्धः । केनचित्कृतं पैशन्यं तत्समानदोषेभ्यो दण्डित अंतर्भ्रमदण्डपाताः सर्वाधिकारस्थाः सहसोपचितार्था इत्यादि लुब्धवर्गः । परिक्षीणः कदर्यो व्यसनी बहुॠण इत्यादिर्भीत वर्गः । आत्मसंभावितः शत्रुपूजामर्थितः नीचेरुपहतः तीक्ष्णः साहसिको भोगेनासंतुष्ट इत्येवमादिरवमानितवर्गः । एतत्परस्योपजपेत् आत्मनश्च रक्षेत् ॥ १०१ ॥ * नास्य छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य च ॥ गृहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥ १०६ ॥ एष एवार्थः पुनरुच्यते । तथा यत्नातिशयं कुर्याद्यथा परस्य छिद्रमन्विच्छेदात्मनश्च रक्षेत् । य एवं क्रुद्धादिः कापटिकादिचारपुरुषैर्ज्ञायते स एवात्मीयोऽनुनीयत इति । कूर्मवदङ्गं गृहेद्रक्षेद्विवरमात्मनः परोपजापात्स्वच्छिद्ररक्षणं महाप्रयोजनमित्येतद- २५ नेनाह ॥ १०६ ॥ For Private And Personal Use Only **[न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलादपि निकृन्तति १ १ ण- अशान्तः । २ ख ड ण-क्ष-नमते । ३ फ-माया यथावत् । ४ ण-फ-कृत्वा । ५ ड-क्षक्रुद्धलब्धभीतैवैमानिकमदैः । ६ फ-हतं शल्यं... स विप्रलभ्यते । ७ फ-शल्योपभा ८ फ-शिल्पं [ ९ड-क्ष- मनोविकाराभ्यां । १० फ-बन्धुः । ११फ दण्डिन । १२ फ - उपपादितार्थाः । १३ फ-बहुल । · १४ फ–पूजार्चनरतः ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy