________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२२
मेधातिथिभाष्यसमलंकृता।
[ सप्तमः
दर्शयति । भर्तृसंबन्धिदुष्कृतमिति यच्च वचनमुत्तरत्र तदीयसुकृतग्रहणमिति तदर्थवादः । न ह्यन्येन कृतं शुभमशुभं वाऽन्यस्य संभवति । न च सुकृतस्य नाशः । किन्तु महता दुष्कृतेन प्रतिबन्धे चिरकालभाविता सुकृतस्य फलस्योच्यते ॥ ९५ ॥
यञ्चास्य सुकृतं किंचिदमुत्रार्थमुपार्जितम् ॥ भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ ९६ ॥
यच्चास्य सुकृतं किंचिद्भर्ता तत्सर्वमादत्त इति । अमुत्रार्थमुपार्जितम् । अर्थोऽस्यास्तीत्यर्थः । अर्श आदित्वादच् । अमुत्रामुष्मॅिल्लोके यत्प्रयोजनं तद. र्जितं तदस्य निष्फलं भवति । अमुत्रार्थोऽस्यति वा अमुत्रार्थ व्यधिकरणो बहुव्रीहिर्गमकत्वात्प्रायोजकाच ॥ ९६ ॥
रंथाश्वं हस्तिनं छत्रं धनं धान्यं पशूस्त्रियः॥ सर्वद्रव्याणि कुप्यं च यो यजयति तस्य तत् ॥ ९७॥
कुप्यं शयनासने ताम्रभाजनादि यो यजयति तस्य तत् । राज्ञः स्वामित्वाद्हणे प्राप्ते तदपवादार्थमेतत् । सुवर्णरूप्यभूम्यावासकादि राज्ञ एव । एवमर्थ परिगणनम् ।
आयुधसंवाहनादि राज्ञ एव । धान्यादीनां पृथगुपादानाद्धनशब्देन गोमहिष्यादिकमुच्यते । १५ तयाँ राजधनं चामिति प्रयुञ्जते ॥ ९७ ।।
* राझश्च दारुद्धारमित्येषा वैदिकी श्रुतिः॥ राज्ञा च सर्वेयोधेभ्यो दातव्यमपृथग्जितम् ॥ ९८ ॥
येन यज्जितं तेन तद्गृहीतव्यमित्यस्यायं विशेष उच्यते । स्वयमुद्धारं राज्ञे दधुरुत्तमद्रव्यमुद्धृत्य दारित्यर्थः । न सर्व तैर्ग्रहीतव्यमित्येषा वैदिकी श्रुतिः “ इन्द्रो वै वृत्रं हत्वा" इत्याद्यपक्रम्य " स महान भूत्वा देवता अब्रवीदुद्धारं म उद्धरतेति"। राज्ञा वा पृथग्नये स्वयंजये यत्रायं विभागो नास्त्यनेनायं ग्रामो जितः । एष चे परकीयः सामन्तादिः सर्वेण सर्व उत्खातमूलः सकृत्कृतः तत्र राज्ञा लब्धपशमनन्यायेन भृत्याः संविभननीयाः ॥ ९८ ॥
एषोऽनुपस्कृतः प्रोक्तो योधर्मः सनातनः ॥ २५ अस्माद्धर्मान्न च्यवेत क्षत्रियो मन् रणे रिपून ॥ ९९ ॥ *[भुत्येभ्यो,विभजेदान्नैकः सर्वहरोभवेत्। नाममात्रेण तुष्येत छत्रेण च महीपतिः॥१॥]
उ-तथाश्वं । २ ख-ड-फ-क्ष-विनायुधो । ३ ण-गोमहिष्यादि । ४ फ-तथा च हीना धनं प्राप्य तद्धनं ममामिति । ५ फ-पृथग्भूयस्वयमूहनीयमत्रार्थविभाग्ये । ६ फ-वा ७ ख-ड-क्ष-यो धर्मः; ण-योऽयं धर्मः।
For Private And Personal Use Only