________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५२०
मेधातिथिमाष्यसमलंकृता ।
[ सप्तमः
यथा होत्रोद्गात्रादीना स्वप्रवचनसमाख्या नियतात्विज्यपदार्थानुष्ठानायैव वरणं तस्मात्प्रभुकार्योद्देशेन यन्मरणं तदनुक्रान्तफलायैव । न च परप्रयुक्तात्कर्मणोऽन्यस्य फलं नास्ति । अश्वमेघावभृथे हि ब्रह्मघ्नस्य स्नानादयजमानस्यैव शुद्धिः । अत्रोच्यते । यदुक्तम् 'उद्यतेराहव' इति तदा भृतिपरिक्रीतस्यास्वतस्य प्रनार्थे युद्धे प्राणत्यागो धर्मायैव । यस्य वा कुर्विति प्रयाणं रण इत्येव परिकरो बद्धस्तदपेक्षमेतत् यज्ञसंस्थावचनं एवंभूतश्चामिमुखो हत इति । अथवा नरकामाव एव सूर्यमंडलभेदनं युद्धयमानस्य भविष्यति । यत्र विषयान्तरेश्वरेण राज्ञा परस्य राज्ञो :विषयो हन्यते मज्यते जनो लुप्येत्तत्र तदर्थ युद्धे प्राणत्यागो धर्मार्थः । अन्धतमो हि नरके तदभावात्सति प्राकाश्ये सूर्यमण्डलभेदैनवचनं
सूर्यमण्डलं भिनत्ति । उपरिष्टाल्लोकानाप्नोति । नाधःप्रपततीत्यर्थः । भृतिपरिक्रीतस्य १० प्रमोः संग्रामे समुपस्थिते तमेव जहतो नरकनिषतनं तदर्थ युध्यमानस्य भर्तृपिण्डानृण्यं
गतवतो दुष्कृतेनाप्रतिबध्यमानस्य स्वैः सुकृतैर्युक्त एव स्वर्गादिलाभः । अत उक्तं " सद्यः संतिष्ठते यज्ञ " इति । अव्यवधानेन यज्ञफलमविशेषश्रुतौ स्वर्गमवाप्नोतीत्यर्थः । एवं भारतेऽपि भूतिपरिक्रीतानां स्वर्गफलावाप्तिवचनमुपपद्यते । युद्धप्रेक्षिणां तु स्वर्गावाप्तिरर्थवाद एव । अथवा बहुषु जीवनोपायेषु सत्सु यच्छस्त्रेण जीवनं ततो नियमात्स्वर्गः । यत्त न मरणाय क्रीयन्त इति शस्त्रभृतां भृतिदानेनान्ययुद्धात्प्रयोजनमस्ति विशेषानुपदेशात् सर्वकार्योद्यताः सर्वप्रकार मदर्थः संपादनीय इति परिक्रीयन्ते तत्र यदा युद्धमुपस्थितं भवति तदा आ शरीरपातात्प्रभोः कर्तव्यस्तथाऽऽनृण्यं भवति । अनुपस्थिते तु युद्धे यदि भृत्यस्य मरणं भवति तदा सर्वेऽनृणा एव । उद्युक्ते ह्यसौ तत्कार्ये तादृश एवास्योपसंवादः ।
युद्धकाले योद्धव्यं भवतीति लिङ्गदर्शनमपि तूपपद्यत एव । अश्वमेधावभूथे तु स्पष्टं वचनं २० — तस्मात्समागमे तेषामिति' । इह तु युद्धसाध्यमिति विशेषः ॥ ९० ॥
न कूटैरायुधैईन्यायुध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ ९१ ॥
तानिदानीमदृष्टान्नियमान्दर्शयति । कूटानि यानि बहिःकाष्ठमयान्यन्तर्निशितशस्त्राणि । कर्णिनः शराये शल्यस्य मूले मध्ये वा कर्णाकारैः फलकैः क्रियन्ते ते हि २५ प्रविष्टा दुरुद्धरा भवन्ति । उद्रियमाणाः प्रहारैरभिन्नमपि शरिरैकदेशं भिन्दन्ति । दिग्धा
विषोपलिप्ताः । अग्निना ज्वलितमादीपितं तेजोमयफलकं येषां एतैर्न योद्धव्यम् ॥ ९१ ॥
१ ण-भेदित । २ ण-भृत । ३ ण-नरक नियत तत्तदर्प । ४ फ प्रतिबाध्यमानस्य । ५ फ-जीयन्ते। ६ फ-प्रभुर्गुरु । ७ ण- भरणं भवति तदाऽसौ भृत एव । ८ ण साध्यमिति ।
For Private And Personal Use Only