SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ५१९ तैर्योद्धव्यमेव । यद्यपि तैरसौ शब्देन नाहूतो वस्तुतस्त्वाहूत एव भवति । एष हि क्षत्रियाणां धर्मः । यदाहूर्तः प्रकृतैस्तैयुद्धे सर्वेण सह योद्धव्यमेव । जातिवयशिक्षापुरुषकारादि नापेक्षितव्यम् । एष धर्मः स्मर्तव्यः ॥ ८८ ॥ संग्रामेष्वनिवर्णित्वं प्रजानां चैव पालनम् ॥ शुश्रूषा ब्राह्मणानां च राज्ञां श्रेयस्करं परम् ॥ ८९ ॥ त्रयाणां धर्माणां तुल्यफलत्वाय श्लोकोऽयम् ॥ ८९ ॥ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः॥ युध्यमानाः परं शक्त्या स्वर्ग यान्त्यपराङ्मुखाः ॥९० ॥ आहूयन्ते युद्धार्थमितरे यत्र वीराः स आहवः संग्रामः । मिथः स्पर्धमाना अन्योन्यं परस्परं जिघांसन्तो हननेच्छवः युद्धयमानाः प्रहरन्तः परं शक्त्या १० परया यथा शक्त्या यथाबलमित्यर्थः । छांदसत्वात्परेत्यस्य स्थाने परमिति रूपम् । अपराङ्मुखा युद्धयमाना इति संबन्धः । स्वर्ग यान्ति । ननु च राज्यलोमात्प्रवृत्तानां दृष्टस्य फलस्य संभवात्कुतः स्वर्ग उच्यते । वक्ष्यमाणयुद्धनियमापेक्षः स्वर्गः । न हि तेषां नियमानामन्यत्प्रयोजनमस्ति । न कूटैरायुधैरित्यादिना त्यक्तराज्यस्यापि शक्तप्रणिपातेन तदनुजीवनसंभवात् भवेत् । तस्मादहस्तत्फलसंभवः । १५ अथवा निश्चिते पराजये निराशस्य ययुद्धावतरणं तच्च स्वर्गायैव । अस्मादेव वचनान्नात्मत्यागनिषेधस्य विषयोऽयम् । महीक्षितो मण्डलेश्वरा न पुनस्तदनुनीविनस्तेषां हि स्वाम्यर्थैव प्रवृत्तिर्न स्वार्था । अतश्च कुतस्तेषां फलसंबन्धः । ऋत्विजामिव दक्षिणापणेन परिक्रीतानामेवमेषामपि भृतिपरिक्रीतानां कुतः स्वर्गादिफलोत्पतिः । ननु च अविशेषेणैतदुक्तम् (१९७) “ उद्यतैराहवे शस्त्रैः क्षत्रधर्महतस्य च । सद्यः सन्तिष्ठते यज्ञ" इति। तथा २० "द्वाविमौ पुरुषौ लोके सूर्यमण्डलभेदिनौ। परिबाड्योगयुक्तश्च शूरश्चाभिमुखो हतः । इति । तथा भारते युद्धप्रेक्षिणामपि स्वर्गः संदर्शितः । मन्त्रालङ्गानि च सन्ति "ये युध्यन्ते प्रधनेषु शूरासो ये तनुत्यनः। ये वा सहस्रदक्षिणास्ताँश्च देवापि गच्छतात्॥" सहस्रदक्षिणानां यजमानानां शराणां च रणशिरसि त्यक्तप्राणानां महाफलत्वं दर्शयति । ये युध्यन्ते न च मरणायैव नियन्ते । न हि संपरिग्रहकालेऽयमुपसंवादोऽस्ति । २५ १ण-यदाहूतै प्रवृत । २फ-नार्हस्तस्य फलस्य संभवः कुतः। ३ फ-युद्धावतारः तत् । ४ फ-वृत्ति। ५फ-हियन्ते। For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy