________________
Shri Mahavir Jain Aradhana Kendra
१४
५
www.kobatirth.org
मेधातिथिभाष्यसमलंकृता ।
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् ॥ स्वयमेवात्मनो ध्यानात्तदण्डमकरोद्विधा ।। १२ ।।
Acharya Shri Kailassagarsuri Gyanmandir
[ प्रथमः
स भगवान् ब्रह्मा परिवत्सरं संवत्सरमुषित्वा तस्मिन्नण्डे स्थित उत्पन्नः सर्वज्ञः कथं निर्गच्छेयमिति ध्यातवान् । तदण्डमकरोद्द्विधा । तावता कालेन गर्भः परिपच्यते । अण्डमपि तावत्कालेन भेदजातं परिपाकादतः काकतालीयन्यायेन तदण्डमकरोद्विधेत्युच्यते ॥ १२ ॥
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ॥
मध्ये व्योम दिशश्राष्टावपां स्थानं च शाश्वतम् ॥ १३ ॥ शकले अण्डकपाले ताम्यामण्डकपालाभ्यामुत्तरेण दिवं निर्ममे निर्मितवान् । अधरेण १० पृथिवी मध्ये व्योमाकाशं दिशोऽष्टौ च प्रागाद्याः । अवान्तरदिग्भिर्दक्षिणपूर्वादिभिः सह अपां स्थानमन्तरिक्षे समुद्रमाकाशं च पृथिवी पातालगता ॥ १३ ॥ उद्भबर्हात्मनश्चैव मनः सदसदात्मकम् ॥
मनसश्चाप्यहङ्कारमभिमन्तारमीश्वरम् ॥ १४ ॥
तत्त्वसृष्टिरिदानीमुच्यते। या च यथावयवा पश्चादुक्ताऽर्थात्पूर्वेति तथोक्तम्। तत्प्रधानात् १५ स्वस्माद्रूपान्मन उद्धृतवान् । प्रातिलोम्येनेयं तत्त्वोत्पत्तिरिहोच्यते । मनसः पूर्वमहंकारमभिमन्तारम् । अहमित्याभिमानिताऽहंकारस्य वृत्तिः । ईश्वरं कार्यनिर्वर्तनसमर्थम् ॥ १४॥ महान्तमेव चात्मानं सर्वाणि त्रिगुणानि च ॥
विषयाणां ग्रहीतृणि शनैः पञ्चेन्द्रियाणि च ।। १५ ।।
महानिति संज्ञया सांख्यानां तत्त्वं प्रसिद्धम् । आत्मानमिति महता सामाना२० धिकरण्यम् । सर्वपिण्डसृष्टौ च महत्तयाऽनुरूपमत आत्मव्यवहारः । अहङ्कारात्पूर्व पूर्वेण न्यायेन ससर्ज । सर्वाणि त्रिगुणानि च । यथानुक्रान्तं यथानुक्रम्यते तत्सर्वं त्रिगुणं सत्वरजस्तमांसि गुणाः । क्षेत्रज्ञाः केवलं निर्गुणाः, प्राकृतो भागः सर्वः सत्त्वरजस्तमोमयः 1 पञ्चेन्द्रियाणि तेषां निर्देशविषयाणां रूपरसादीनां यथा स्वं ग्रहीतृणि विज्ञानजनकानि । पञ्च ‘श्रोत्रं त्वगित्यादिना' वक्ष्यन्ते विशेषनाम चंशब्देन । विषयांश्च शब्दस्पर्शरूपरस२५ गन्धान् पृथिव्यादीनि च ॥ १५ ॥
तेषां त्ववयवान्सुक्ष्मान् षण्णामप्यमितौजसाम् ॥ सन्निवेश्यात्ममात्रांसु सर्वभूतानि निर्ममे ॥ १६ ॥
तेषां षण्णां या आत्ममात्रास्तासु सुक्ष्मानवयवान् सन्निवेश्य सर्वभूतानि निर्ममे ।
For Private And Personal Use Only
१ क- फ-ड-महानिति संज्ञायां इति ॥ अ-संज्ञां । २ ख - चशब्दात्-अ- फ- चशब्दान् । ३ ड - मात्राभिः ।