________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पनन
५
अध्यायः
मनुस्मृतिः। वेत्सि। कार्य महतोऽहङ्कारोऽविशेषस्तन्मात्राण्यहंकारस्य तन्मात्राणां विशेषाः पञ्चमहाभूतानि । अहङ्कारस्येन्द्रियाण्येकादश । विशेषाणामपि पिण्डीकार्य ब्रह्मादिस्तम्बपर्यन्ताः । तेषामपि प्रत्ययात्तत्त्वं स्वभावो । यथा महतो मूर्तिमात्रत्त्वं प्रधानस्य सर्वस्य विकारावस्था महदित्युच्यते । प्रकृतेर्महानिति । प्रक्रतिः प्रधानमित्येकोऽर्थः । अहङ्कारस्य तत्त्वमस्मिप्रत्ययमात्रत्वमविशेषाणामविशेषप्रत्ययसंवेद्यत्वमिति । अर्थः प्रयोजनं । पुरुषार्थमिदंवस्त्वनेन प्रकारेण पुरुषायोपयुज्यते इमं चाथै साधयति । यद्यपि धर्म जिज्ञासमानस्य जगन्निर्माणज्ञता आचार्यसंबन्धिनी न क्वचिदुपकारिणी न च प्रष्टव्या तथाऽप्यन्यतो दुर्विज्ञानं महर्षीणां वैषम्याज्जगन्निर्माणमादौ प्रश्नाह भवति । मनो ह्यवचनीयम् । यद्वस्तु प्रमाणषट्रस्याप्यविषयस्तदपि त्वमार्षेण चक्षुषा वत्सि । धर्मः पुनर्वेदगोचरः सोऽवश्यं त्वया विज्ञात इत्येवं प्रकृतविषयैव प्रवक्तृप्रशंसा ।
१० एवं स्तुत्या प्रोत्साहितो जगन्निर्माणमेव तावद्वक्ति ‘आसीदिदमिति' । 'ततःस्वयंभूरिति' । प्रधानमेवैतैः शब्दैरभिधीयते । स्वयं भवति परिणमति विक्रियामेति महदादितत्त्वभावेन । न कश्चिदीश्वरः स्वभावसिद्धोऽस्ति यथेच्छमचेतनं प्रधानमनुवर्तते वस्तुस्वभाव एवायं तदुत प्रकृतिरूपं प्रधानं पुनर्विक्रियते । यथा क्षीरमचेतनं मण्डकावस्थाभिर्दधीभवति । भगवानिति । स्वव्यापार ईश्वरो महाभूतादिद्वारेण प्रवृत्तः । स्वकार्यो- १५ त्साह ओजः सामर्थ्यम् । आदिशब्दः प्रकारे व्यवस्थायां । तेन महदादिकारणमव्यक्तं भवति । विकारावस्थायां प्रच्युतं प्रापात्सूक्ष्मभावात् प्रकाशमयं तमो नुदतीत्युच्यते । अर्थशब्दाध्याहारेण वा प्रधाने पुल्लिङ्गनिर्देशः । पुरुषशब्दश्च प्रधानादिषु दृष्टः । तेषामिदं तु 'सप्तानां पुरुषाणामिति' । योऽसाविति पूर्ववत् । सोऽभिध्यायेति । अभिध्यानं गुणतोऽचेतनत्वात्प्रधानस्याभिध्यानासंभवात् । यथा कश्चिदभिध्यायैव कार्य निवर्तये- २० दन्यकार्यनिरपेक्षमेव वस्तुस्वाभाव्येन परिणममानमीश्वरेच्छानपेक्षतयाऽभिध्यायेत्युच्यते । अप आदौ ससर्ज । महाभूतान्तरापेक्षया तासामादित्वं, न तु महदादितत्त्वोत्पत्तेः । वक्ष्यति हि तेषामिदं तु सप्तानामिति' । प्रथमं तत्त्वोत्पत्तिस्ततो भूतानाम् । तासु वीर्यमिति । वीर्य शक्तिमवासृजत् । प्रधानमेव कर्तृ भवति । सर्वतः प्रधानं पृथिव्यादिभूतोत्पत्तौ काठिन्यमेति । अण्डरूपं संपद्यते । तदण्डमिति । यथा तत्त्वानि स्त्रीपुरुषसंयोगं विनोत्पन्नानि प्रथममेवं पूर्वकर्मवशेन ब्रह्माऽपि स्वमहिम्नैवायोनिजं तस्य शरीरं दंशमशकादिवत् । तद्विसृष्टस्तेन प्रधानेन विसृष्टस्तन्मयत्वात्तच्छरीरस्य तद्विसृष्ट इत्युच्यते । शेषं पूर्ववत् । यदत्रार्थतत्त्वं तदस्माभिरुक्तमेव । अर्थवादा एते यथाकथंचिद्गुणवादेन नीयन्ते ॥ ११ ॥
१ अ-ब-क-ड-अस्मिन्प्रत्यय । २ पुरुषशब्दाध्याहारेण । ३ अग्रे १९ श्लोके ।
For Private And Personal Use Only