________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः प्वाम्नातः, सोऽयमेव । न शब्दभेदादर्थभेदः । ब्रह्मा नारायणो महेश्वर इत्येक एवार्थों नोपासनाकर्मतया भिद्यते । तथा च द्वादशे दर्शयिष्यामः । तथाचैतत्तथोच्यते । आपो नारा इत्यनेन शब्देन प्रोक्ताः । ननु नायं वृद्धव्यवहारोऽथ च न तथा प्रसिद्धोऽत आह 'आपो वै नरसनवः। स भवेत् भगवान्नरः पुरुष इति प्रसिद्धः। आपश्च तस्य सनवोड पत्यानि । अतस्ता नरशब्देनोच्यन्ते । दृष्टो हि पितृशब्दोऽपत्ये वसिष्ठस्यापत्यानि वसिष्ठा, भृगवस्तथा बभ्रुमण्डुलोमक इत्यभेदोपचारेण ता आपो नरशब्दवाच्याः । यत् येन प्रकारेण अस्य प्रजापतेः पूर्वमयनं प्रथमसर्ग आश्रयो वा गर्भस्थस्य, तेन हेतुना नारायणः स्मृतः । नरा अयनमस्येति नरायण इति प्राप्तेऽन्येषामपि दृश्यते' (व्या. सू. ६।३।१३४) इति दीर्घः । 'पुरुष इति' यथा । अथवा सामूहिकोऽण् ॥ १० ॥
यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् ।।
तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीयते ॥ ११ ॥ कारणमेव न कार्यो न परेच्छाविधेयशरीरः, स्वाभाविकेन महिना युक्तम् । अव्यक्तं नित्यमुक्तमित्युक्त्वा,* विरुद्धस्य भावाभावरूपधर्मद्वयस्य योग उच्यते । अर्वाग्दर्शनानां
तद्विषयाया उपलब्धेरभावात्सत्ताव्यवहारांयोग्यत्वादसदात्मेत्युच्यते । आगमेभ्यः सर्वस्यास्य १५ तत्कारणत्वावगमात्सदात्मकम् । अतः प्रतिपत्तृणि अभेदादुभयतोऽपि व्यवहारो ब्रह्मण्यविरुद्धः।
ननु च सर्व एव भावा एवंरूपाः स्वेन रूपेण सदात्मकाः पररूपेणासन्तः किमुच्यते ब्रह्मण्यविरुद्ध इति? उच्यते। अद्वैतदर्शने नैवान्यद्ब्रह्मणः किंचिदस्तीति किंतत् परं यत् तद्रूपतयाऽभाव इत्युच्यते । तेन विसृष्ट उत्पादितोऽन्तरण्डं निर्मितः पुरुषो लोके ब्रह्मेति
कीर्त्यते । योऽसावुग्रतपसां देवासुरमहर्षीणां वरदानार्थ तत्रतत्रोपविष्ट इति महाभारतादौ २० श्रूयते स एष तेन महापुरुषेण परेण ब्रह्मणा प्रथमं विसृष्टः ।
___ अन्ये तु 'त्वमेवैक' इत्याद्यन्यथा वर्णयन्ति । अस्येति प्रत्यक्षाभिनये , जगन्निर्दिश्यते सर्वस्यास्य जगतो यद्विधानं निर्माणं तत्स्वयंभुवः संबन्धि अचिन्त्यमद्भुतरूपं विचित्रमतिमहदप्रमेयं न शक्यं सर्वेण ज्ञातुम् । तथा ऋषिः । 'को अद्धा वेद क इह प्रवोचत् कुत
आजाता कुत इयं विसृष्टिरिति' । किमिदं जगत्सर्वमुपादानमपेय जायत उत नैर्मा२५ णिकमात्रम् । येथा बुद्धस्य दर्शन किमीश्वरेच्छाधीनमुत केवलकर्मवशजमुत स्वाभाविकमप्रमे
यम् । तथा किं महदादिक्रमेणोत्पद्यत उत द्वयणुकादिक्रमेण ? अस्य त्वं कार्य तत्त्वमर्थ च
१क्ष ख-यथा चैतत् । २ "तस्य समूहः। व्या. सू. ४।२।३७ । ३ अ-क-फ-नित्ययुक्तम् । * डख-मित्युक्तार्यो सदसदात्मकम् । सच्चासच्च सदसती, ते आत्मा स्वभावो यस्य तदेवमुच्यते । कथं पुनरेकस्य विरुद्धस्याविरुद्धस्य भावाभावरूपधर्मद्वयस्य योग उच्यते । ४ अ-ख-फ-ड-सत्ताव्यवहारयोग्यत्वात् । ५ अ-क-ड-फ प्रतिपत्तृत्वभदात् । ६ अ-क-ड-फ-अभिनयने । ७ अ-क-ड-फ संबंधे । ८ अ-क-ड-फ-अवेक्ष्य। ९ अ-क-ड-फ-यज्ञबुधस्य । १० अ-क-ड-फ-स्वं ।।
For Private And Personal Use Only