________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अध्यायः
मनुस्मृतिः ।
1
प्रजा विविधा नानारूपाः सिसृक्षुः स्रष्टुमिच्छन्नपः उदकमादौ प्रथमं ससर्वोत्पादितवान् । शरीरात् स्वाद्यत्तेन गृहीतं शरीरं अद्वैतदर्शने “प्रधानमेव तस्येदं शरीरं तदिच्छानुवर्तित्वात् स्वं तस्य शरीरनिर्माणहेतुत्वाच्च " । सर्वलोकानां शरीरं किं भौतिकेन व्यापारेण कुद्दालखननादिना सर्सज ? नेत्याह । कथं तर्हि ? अभिध्याय ‘आप उत्पद्यन्ताम् ' । एवमिच्छामात्रेण । अत्रेत्थं चोच्यते । पृथिव्यादीना तदानीमभावादपां सृष्टानां ५ क आधारः । अन्येभ्य इदमुच्यते । स्रष्टुरपि परमेश्वरस्य गृहीतशरीरस्य क आधार इत्यपि वाच्यम्। अथ विलक्षणैश्वर्यातिशययोगादन्यैव सा कर्तृशक्तिरसंचोद्या प्रकृतधर्मसामान्येनेत्येवमेष्वपि द्रष्टव्यम् । तासु वीर्य शुक्रमवासृजत् न्यषिञ्चत् ॥ ८ ॥ तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
११
तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ॥ ९ ॥
१०
प्रथमं प्रधानं सर्वतोभवं मृद्रूपं संपद्यते । हिरण्यगर्भवीर्यसंयोगात्काठिन्यं प्रतिपद्यते । तदण्डं समभवदित्युच्यते। हेम्न इदं हैमं स्वर्णमयमित्यर्थः । शुद्धसामान्यात्तस्य सुवर्णमयस्य । ननु नागमिकोऽयमर्थो, न चात्र इवशब्दः श्रूयते, तत्र कथमुपचारतो व्याख्यानमसति प्रमाणान्तरे ? उच्यते । वक्ष्यति, ' ताभ्यां स शकलाभ्यां तु दिवं भूमिं च निर्ममे' इति । इयं च भूमिर्मृन्मयी न सर्वतः सुवर्णमयीत्यत उपचार आश्रितः । सहस्रांशुरादित्य इत्यर्थः । १५ अंशवो रश्मयस्तत्तुल्या प्रभा दीप्तिस्तस्याण्डस्य तस्मिन्नण्डे स्वयं ब्रह्मा जातो जज्ञे संभूतः । ब्रह्मा हिरण्यगर्भ एव । स्वयमिति उक्तार्थम् । योगशक्त्या प्राग्गृहीतं शरीरं परित्यज्यान्तरण्डमनुप्राविशत् । अथवाऽशरीर एवापः ससर्ज । ततोऽन्तरण्डं स्वशरीरं जग्राह । अथवाऽन्यो ‘योऽसावित्य'त्र निर्दिष्टः (लो. ७) अन्यश्चायमण्डजो ब्रह्मेति । तथा च वक्ष्यति (लो. ११) 'तद्विसृष्ट' इति । तेनेश्वरेण सृष्टः । कथं तर्हि स्वयं जज्ञे २० स्वयंभूतश्च तत्र ब्रह्मोच्यते । नैष दोषः । पितृनाम्ना पुत्रो व्यपदिश्यते । ' आत्मा हि जज्ञ आत्मन' इति । अनिदंपरेभ्य आगमेभ्यो लिखितमाचार्येण, नचात्राभिनिवेष्टव्यम् । ‘स एव स्वयं जायतामन्यो वा तेन सृज्यतामिति' न धर्माऽभिधान उपयुज्यत इत्युक्तम् । सर्वलोकानां पितामह इति संज्ञा । तस्योपचारतोऽवास्तवदृष्टत्वात् पितुरपि सकाशादधिकः पितामहः पूज्यः ॥ ९ ॥
I
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ॥
ता यदस्यायनं पूर्व तेन नारायणः स्मृतः ॥ १० ॥
यः कुत्रचिन्नारायणशब्देन कर्तृज्ञातृशक्त्यतिशययोगेन जगत्कारणपुरुष तयाऽऽगमे
For Private And Personal Use Only
२५
१ फ—स्वतः शरीर । २फ-क्ष अ-- असंगचोया । ३ फ-क्ष अंशुसामान्यात् । ४ ड-ननु चागमिकोऽयं ।