________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः योऽसाविति । सर्वनामभ्यां सामान्यतः प्रसिद्धमिव परंब्रह्मोद्दिशति । योऽसौ वेदान्तेप्वन्यासु चाध्यात्मविद्यास्वितिहासपुराणेषु च प्रसिद्धो वक्ष्यमाणैर्धमैः स एष प्रादुरासीदित्यत्रोक्तः स्वयमुद्धभावुद्भूतः शरीरग्रहणं कृतवान् । भातिरनेकार्थत्वादुद्भवे वर्तते । अथवा दीप्त्यर्थ एव स्वयंप्रकाश आसीन्नादित्याद्यालोकापेक्षः। इन्द्रियाणामत्ययोऽतीन्द्रियम् । अव्ययीभावः। अतीन्द्रियग्राह्यः सुप्सुपेतिसमासः। इन्द्रियाण्यतिक्रम्य गृह्यते न कदाचिदिन्द्रियस्य गोचरः । अन्यदेव तद्योगजज्ञानं येन गृह्यते । अथवेन्द्रियाण्यतिक्रान्तमतीन्द्रियं मन उच्यते । परोक्षत्वादिन्द्रियाणामविषयः । तथा च वैशेषिका 'युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गमित्यानुमानिकत्वं मनसः प्रतिपन्नास्तेन गृह्यते। तथा च भगवान्व्यासः- नैवासौ चक्षुषा ग्राह्यो न तु शिष्टैरपीन्द्रियैः।मनसा तु प्रयत्नेन गृह्यते सूक्ष्मदर्शिभिरिति' ॥ प्रसन्नेन रागादिदोषै। रकलुषितेन तदुपासनापरत्वेन लब्धसूक्ष्मदर्शनशक्तिभिः। सूक्ष्म इव सूक्ष्मोऽणुर्न ह्यसावणुस्थूलादिविकल्पानामाश्रयः । सर्वविकल्पातीतो ह्यसौ । उक्तं च । 'यः सर्वपरिकल्पानामार्भासेऽप्यनवस्थितः । तांगमानुमानेन बहुधा परिकल्पितः । व्यतीतो भेदसंसर्गाद्भावाभावौ क्रमाक्रमौ । सत्यानृते च विश्वात्मा स विवेकात्प्रकाशत इति' । सूक्ष्मत्वादव्यक्तः सनातनो
ऽव्यक्तस्वाभाविकेनानादिनिधनेनैश्वर्येण युक्तो। येषामपि कर्मप्राप्यं हैरण्यगर्भ पदं तन्मतेऽपि १५ सनातनत्वं सत्यप्यादिमत्त्वेऽन्तत्वाभावात् । न हि सर्गादिफलभोक्तृत्वावस्था कदाचिदपैति।
सर्वाणि भूतानि मया स्रष्टव्यानीत्येवंभावितचित्तो भूतात्मा एवं संपन्नः सर्वभूतमय इत्युच्यते। यथा मृन्मयो घटो मृद्विकारत्वान्मृद्भिरारब्धशरीर एवं यः कश्चित्किचिदत्यन्तं भावयति स तन्मय इत्युपचारादुच्यते । यथा स्त्रीमयोऽयं पुरुषः ऋङ्मयो यजुर्मय इति । अथवा
द्वैतदर्शने "नैव चेतनाचेतनानि भूतानि पृथक्त्वेन सन्ति तस्यैवायं विवर्तः । अतो विर्व२० तानां भूतमयत्वात्तैश्च तस्याभेदाद्युक्तमेव तन्मयत्वम् । कथं पुनरेकस्य नानारूपविवर्तितो
पपत्तिरेकत्वाद्विरोधिनी उच्यते । एवमाहुर्विवर्तवादिनो। यथा समुद्राद्वायुनाऽभिहता ऊर्मयः समुत्तिष्ठन्ति ते च न ततो भियन्ते नापि लिप्यन्ते' सर्वथा भेदाभेदाभ्यामनिर्वाच्या एवमयं ब्रह्मणो विश्वविवर्तः । अपिशब्दश्चात्र द्रष्टव्यः। स्वरूपे स्थितोऽग्राह्यो विवर्तावस्थायामिन्द्रि
यग्राह्यः । एवं सूक्ष्मः । अपिशब्दात् स्थूलावस्थायां स्थूलः । अव्यक्तो व्यक्तश्च शाश्वतो२५ ऽशाश्वतश्च । भूतमयस्तद्रूपरहितश्च । विवर्तावस्थाभेदेनैव व्याख्येयम् । अचिन्त्यः आश्चर्यरूपः सर्वविलक्षणया शक्त्या योगात् ॥ ७ ॥
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।।
अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ ८॥ स पूर्वनिर्दिष्टविशेषणैर्हिरण्यगर्भः समवर्तताग्रे" इत्यादिभिर्मन्त्रैर्लब्धहिरण्यगर्भाभिधानः। १ फ-क्ष-अभ्यासे । २ फ-क्ष-न ततोऽधिपद्यन्ते।
For Private And Personal Use Only