________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
आसीदिदं जगत्तमोभूतं तम इव । भूतशब्दोऽनेकार्थोऽह्युपमायां प्रयुक्तः । यथा 'यत्तद्भिन्नेष्वभिन्नं छिन्नेष्वच्छिन्नं सामान्यभूतं स शब्द इति' सामान्यभूत इति सामान्यमिवेत्यर्थः । किं तमसा जगतः सादृश्यमत आह । अप्रज्ञातं विशेषाणां स्वभावानां विकाराणां प्रकृतावुपलयनादतः प्रत्यक्षेणाज्ञातम् । अनुमानात्तर्हि ज्ञायेत । तदपि चालक्षणम् । लक्षणं लिङ्गं चिन्हं तदपि तस्यामवस्थायां प्रलीनमेव सर्वविकाराणां विशेषात्मना विनष्टत्वात् । अप्रतयै यद्रूपमासीत्तर्कयितुमपि न तद्रूपतया शक्यम् । तर्कप्रकारमनुमानं निषेधति । न सामान्यतो दृष्टमनुमानमस्ति तद्रूपकावेदकं न विशेषतो दृष्टमतश्चाविज्ञेयम् । नैव तर्ह्यसीदसदेवाजायतेति प्राप्तमेतन्निषेधति ।
I
1
प्रसुप्तमिव सर्वतः । नासतः सत उत्पत्तिः । उक्तं च 'सदेव सोम्येदमग्र आसीत्. कथमसतः सज्जायेते " त्याद्युपनिषत्सु । अतश्चाविज्ञेयमवच्छेदविषयैः प्रमाणैः । १० आगमात्तादृशादेव गम्यते । प्रसुप्तमिव जाग्रत्स्वप्नवत्तां परित्यज्य संप्रसादावस्था सुषुप्तिर्ह - ष्टान्तत्वेनोपात्ता यथा ‘अयमात्मा सुपुत्ययस्थायां निःसंबोधक्लेशप्रध्वस्ताशेषविकल्प आस्ते न च नास्तीति शक्यते वक्तुं प्रबुद्धस्य सुखमस्वाप्समिति' प्रत्यभिज्ञानदर्शनात् । एवं जगदागमात्सिद्धार्थरूपादाभासानुमानेभ्यश्च तार्किकाणामवसीयते । आसीदिति । वर्तमाना तु साऽवस्था न कस्य विज्ञेयेति । अंते उक्तमविज्ञेयम् । सर्वतो नैकदेशप्रलय इत्यर्थः ॥ ५ ॥ १९ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् ।। महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ ६ ॥
।
तस्या महारात्र्या अनन्तरं । स्वयं भवतीति स्वयंभूः स्वेच्छया कृतशरीरपरिग्रहो न संसार्यात्मवत्कर्मपरतन्त्रं शरीरग्रहणमस्य । अव्यक्तो ध्यानयोगाभ्यासंभावनावर्जितानामप्रकाशः । अथवा ‘अव्यक्तमिदमित्येवं पठितव्यम् । इदमव्यक्तावस्थं व्यञ्जयन् स्थूलरूपै- २० र्विकारैः प्रकाशमानयन् । यदिच्छया पुनर्जगत्प्रादुर्भवति । प्रादुरासीत् । प्रादुःशब्दः प्राकाश्ये । तमोनुदः तमो महाप्रलयावस्था तां नुदति विनाशयति पुनर्जगत्सृजत्यतस्तमोनुदः । महाभूतानि पृथिव्यादीनि । आदिग्रहणात्तद्गुणाः शब्दादयो गृह्यन्ते । तेषु वृत्तं प्राप्तमोजो वीर्यै सृष्टिसामर्थ्यं यस्य । स एवमुक्तः स्वयमसमर्थानि महाभूतानि जगन्निर्वर्तयितुम् । यर्दा तु तेन तत्र शक्तिराधीयते तदा वृत्ताद्यात्मना विक्रियन्ते । न तु प्रकृति- २५ शक्त्यवस्थानि प्रकृतिरूपापन्नानि महाभूतानि जगत्सर्गादौ महाभूतशब्देनाभिप्रेतानि । पाठान्तरं ' महाभूतानुवृत्तौजा' इति । अनुवृत्तमनुगतमिति प्रागुक्त एवार्थः ॥ ६ ॥ योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः ॥ सर्वभूतमयोऽचिन्त्यः स एव स्वयमुद्रभौ ॥ ७ ॥
१ ड -- उपलंभनात् १ फ यदात्तं तु...... तदावृत्ताद्यात्मना ... ।
२
For Private And Personal Use Only