________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः
विदारानाचष्ट इति । न चास्मिन् वस्तुनि प्रमाणं न च प्रयोजनीमत्तः सर्व एवायमध्यायो नोध्येतन्यः । उच्यते । शास्त्रस्य महाप्रयोजनत्वमनेन सर्वेण प्रतिपाद्यते । ब्रह्माद्याः स्थावरपर्यन्ताः संसारगतयो धर्माधर्मनिमित्ता अत्र प्रतिपाद्यन्ते । ' तमसा बहुरूपेण वेष्टिताः कर्महेतुनेति' (श्लो. ४९ )। वक्ष्यति च । एता दृष्ट्वा तु जीवस्य गतीः स्वेनैव चेतसा । धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मन' इति ( अ. १२ श्लो. २३ )॥ ततश्च निरतिशयैश्वर्यहेतुर्धर्मस्तद्विपरीतश्चाधर्मस्तद्रूपपरिज्ञानार्थमिदं शास्त्रं महाप्रयोजनमध्येतव्यमित्यध्यायतात्पर्यम् ।
सूत्रं त्वत्र मन्त्रार्थवादाः सामान्यतो दृष्टं च । तथा च मन्त्रः । “ तम आसीत्तमसा गूळ्हमग्रेऽप्रकेतम् । सलिलं सर्वमा इदम् । तुच्छेनाम्वपिहितं यदासी१० त्तमसस्तन्महिनाऽजायतकम् ” चन्द्रार्काम्यादिषु बाह्याध्यात्मिकेषु महाप्रलये प्रकाशकेषु
नष्टेषु तम एव केवलमासीत् । तदपि तमः स्थूलरूपतमसा गुढं संवृत्तम् । न हि तदानीं कश्चिदपि ज्ञाताऽस्ति । अतो ज्ञातुरभावान्न कस्यचित् ज्ञानमस्तीति तमसा गूढमुच्यते । अग्रे भूतसृष्टेः प्राक् अप्रकेतमज्ञातं सर्व आः आसीत् । इदं सलिलं सरणधर्मकम् क्रियावत्
यत्किचिच्चेष्टावत्तत्सर्वं निश्चेष्टमासीत् । तुच्छेन सूक्ष्मेणाभु स्थूलमपिहितं प्रकृत्यात्मनि १५ विशेषरूपं लीनमित्यर्थः । एतावताऽव्याकृतावस्था जगतो द्योतिता । चतुर्थेन पादेनाद्या
सृष्टयवस्थोच्यते। तमसस्तन्महिना महत्त्वेन एकं यदासीत्तदजायत विशेषात्मनाऽभिव्यज्यते स्म । कर्मवशात्पुनः प्रादुर्बभूवेत्यर्थः । अथवा तस्यामवस्थायां तमः कर्मणा महत्त्वेन हिरण्यगर्भ आत्मनाऽजायत प्रादुरासीत् । यथा वक्ष्यति । ततः स्वयंभूरिति' (श्लो. ६)।
सामान्यतो दृष्टेन महालयोऽपि संभाव्यते । यस्य ह्येकदेशे नाशो दृष्टस्तस्य सर्वस्यापि २० नाशो दृश्यते । यथा शालाऽपि क्वचिद्दह्यमाना दृष्टा कदाचित्सर्वो ग्रामो दह्यते । ये च
कर्तृपूर्वा भावास्ते सर्वे विनश्वरा गृहप्रासादादयः कर्तृपूर्व चेदं जगत्सरित्समुद्रशैलाद्यात्मकम्। अतो गृहादिवन्नंक्ष्यतीति संभाव्यते । कर्तृपूर्वतैव न सिद्धेति चेत्तन्निवेशविशेषवत्त्वादिना गृहादिवत्साऽपि साध्यत इत्यादि सामान्यतो दृष्टम् । न च प्रमाणशुद्धौ तदृषणे वा प्रयता
महेऽनिदंपरत्वाच्छास्त्रस्य । एतद्धि यावन्न विचार्य निरूपितं तावन्न सम्यगवधार्यते । तथा२५ निरूपणे च तर्कशास्त्रता स्यान्न धर्मशास्त्रता ग्रन्थविस्तरश्च प्रसज्यते । प्रक्रियाबहुलं चेदं
सर्वमपन्यसिष्यते । क्वचित्पौराणी प्रक्रिया क्वचित्सांख्यानाम् । न तया ज्ञातयाऽज्ञातया वा कश्चिद्धर्माधर्मयोर्विशेष इति निपुणतया न निरूप्यते । अर्थिता चेत्तत एवान्वेप्या । पदार्थयोजनाव्याख्यानमात्रं त्वध्यायस्योपदिश्यते तदेव करिप्यामः । तात्पर्यमुपदर्शितमेव ।
१ वृक्षाविशेषान् । २ ड-बाध्येतव्यः । ३ फ-क-अ-भूतसृष्टेराक् प्रकेतमज्ञातं । ४ अनुमानेन । अ-द-क्ष-आभु । ५फ-क्ष-क-प्रलयेऽपि । ६ फ-सिद्धौ ।
For Private And Personal Use Only