________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
जैमिनिनाऽप्युक्तम् ' कार्येऽर्थे वेदः प्रमाणम्' । 'चोदनालक्षणोऽर्थो धर्म' इति । अतश्च निरवशेषपदार्थपरिज्ञानातिशययोगाद्धर्मप्रवचनसामर्थ्यं सिद्धवदुपादाय । प्रभो इत्यामन्त्रणम् । हे प्रभो धर्माभिधानशक्त त्वमनुब्रूहि धर्मानिति । एवमनया त्रिश्लोक्या धर्मान् पृष्ट उत्तरेण श्लोकेन प्रतिजज्ञे ॥ ३ ॥
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः || प्रत्युवाचार्च्य तान्सर्वान्महर्षीच्छ्रयतामिति ॥ ४ ॥
स मनुरमितौजास्तैर्महर्षिभिर्महात्मभिः पृष्टस्तथा तान् प्रत्युवाच । श्रूयतामिति । तथा तेन प्रागुक्तेन प्रकारेण । पृच्छयमानवस्तुप्रश्नविधिश्च प्रकारवचने तथाशब्देऽन्तर्भूतः । तेनायमर्थस्तथाष्पृष्टस्तान् धर्मान् पृष्टः प्रत्युवाच । अथवा तथेतिप्रकारमात्रमाचष्टे । पृष्ट इति पूर्व श्लोकात्पृच्छयमानविशेषो बुद्धौ विपरिवर्तत एव । तेन यत्पृष्टस्तत्प्रत्युवाच ' श्रूयता- १० मिति ' प्रश्नप्रतिवचनयोरेककर्मता सिद्धा भवति । तदा च तथाशब्दः श्लोकपूरणार्थः । आद्ये तु व्याख्याने तथाशब्दोपात्तैव प्रश्नप्रतिवचनयोरेककर्मता । सम्यक्शब्दः प्रतिवचनविशेषणम्। सम्यक् प्रत्युवाच । प्रसन्नेन मनसा न क्रोधादियोगेन । अमितौजा अक्षीणवाग्विर्भवोऽमितमनन्तमोजो वीर्यमभिधानसामर्थ्यमस्येति । महात्मतया महर्षीणां धर्मप्रष्ट्रत्वं महर्षित्वं चाविरुद्धमित्याह । महपनिति । ' परार्थकारी सततं महात्मे ' त्युच्यते । तेन १५ यद्यपि स्वयं विद्वांसोऽधिगतयाथातथ्या अन्यथा महर्षित्वानुपपत्तेस्तथाऽपि परार्थमपृच्छन् । मनुः प्रख्याततरप्रमाणभावः । एतेन यदुच्यते तल्लोकेनाद्रियते । प्रत्ययतोऽयं समुपास्यतेऽतः शास्त्रावतारार्थमुपाध्यायीकुर्मः । अस्माभिश्च पृच्छ्यमानः प्रमाणतरीकरिष्यते
५
T
1
नेनेति । अत एवार्च्य तान् सर्वानित्यर्चनमविरुद्धम् । अन्यथा शिष्यस्योपाध्यायात्कीदृश्यर्चेति । अर्चयतेराङ्पूर्वस्य ल्यबन्तस्य रूपमायेति । पाठान्तर 'मर्चयित्वा तानिति' । २० अत्र यथेोच्यते । यदि मनुनाऽयं ग्रन्थः कृतः परापदेशो न युक्तः स तैः पृष्टः प्रत्युवाचेति । अहं पृष्टः प्रत्यब्रवमिति न्याय्यम् । अथान्यतर एव ग्रन्थस्य कर्ता मानवव्यपदेशः कथमिति । तदचोद्यं प्रायेण ग्रन्थकाराः स्वमतं परोपदेशेन ब्रुवते । अत्राह ' अत्र परिहरन्तीति नैवमहं तैः पृष्ट इति'। यो यः पूर्वतरः स स प्रमाणतरो लोके नत्वेव नाभ्युपगम्यते । 'तत्प्रमाणं बादरायणस्येति' । अथवा भृगुप्रोक्ता संहितेयं । मानवी तु स्मृतिरूपनिबद्धेति २९ मानवव्यपदेशः । प्रत्युवाच तान्महर्षीन् किं तद्यदहं पृष्टस्तत् श्रूयतामिति ' ॥ ४ ॥ आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ॥ अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ५ ॥
क्व अस्ताः क्व निपतिताः । शास्त्रोक्तनिपतितधर्मान् पृष्टस्तानेव वक्तव्यतया प्रतिज्ञाय जगतो व्याकृतावस्थावर्णनमप्रकृतमपुरुषार्थं च । सोऽयं सत्यो जनप्रवादः 'आम्रान् पृष्टः को- ३०
For Private And Personal Use Only
१ फ - धर्मशब्दत्वं; धर्मप्रष्टत्वं धर्मदृष्टाव । २फ - अनेनेति । ३ ड - परोपदेशेन । ४ ख - एवमिह सवैः पृष्ठ इति ।