________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिमाष्यसमलंकृता ।
[प्रथमः धात्वर्थविषयत्वेऽवगते परिपूर्णा कर्तव्यता भवति । यावदंशान्तराण्यधिकारेतिकर्तव्यताप्रयोगरूपाणि नावगतानि । एतैरंशैर्विततरूपो विधिः प्रतीयते । अतोऽशरूपाण्यपि विधिशब्दाभिलप्यतया न विरुद्धानि ।
एतदेवाह । अचिन्त्यस्येति । अप्रत्यक्षस्येत्यर्थः । प्रत्यक्ष ह्यनुभूयत इत्युच्यते । न चिन्त्यते इति । न स्मर्यत इति । अप्रमेयस्य कल्प्यस्य प्रायशःस्मृतिवाक्यमूलस्य । न हि प्रत्यक्षेण प्रमीयते । अतोऽप्रमेयस्येत्युच्यते । अथवाऽप्रमेयस्येयत्तया परिमातुमशक्यस्यातिमहत्त्वात् ।अनेकशाखाभेदभिन्नो वेदो न शक्यते सर्वैः प्रमातुम् । अत एवाचिन्त्यस्य । यदतिबहु तदुर्ग्रहत्वादचिन्त्यमित्युच्यते । यथा च लोके वक्तारो भवन्ति । अन्येषां का गतिः ?
चिन्तयितुमप्येतन्न युज्यत इति । मनः किल सर्वविषयम् । अयं चातिमहत्त्वात्तस्यापि न १० विषय इति । पदद्वयेन बाह्यान्तःकरणविषयतया महत्त्वस्ये ख्यापनेनाचार्यः प्रोत्साह्यते ।
त्वयैव केवलेनैवंविधो वेद आगमितोऽतः तस्य यः कार्यरूपस्तत्त्वार्थस्तं वेत्सि जानीषे । ___ कार्यमनुष्ठेयमुच्यते । यत्र पुरुषोऽनुष्ठातृत्वेन विनियुज्यत इदं त्वया कर्तव्यमिदं त्वया न कर्तव्यमित्यग्निहोत्रादि कर्तव्यम् कलञ्जभक्षणादि न कर्तव्यम् । प्रतिषेधोऽप्यनुष्ठा
नमेव । यद्ब्राह्मणवधस्याननुष्ठानं तदेव प्रतिषेधस्यानुष्ठानं। प्रवृत्तिश्च क्रिया निवृत्तिश्च क्रियेति । १५ न हि परिस्पन्दमानसाधनसाध्यमेवानुष्ठानमुच्यते। किं तर्हि ? प्राप्ते तद्रूपे तन्निवृत्तिरपिायथा ।
'हितसेवी चिरायुरिति' । यः प्राप्ते काले भुङ्के प्राप्ते न भुके। अभोजनमपि हितमेव। अथवा कार्यशब्दः प्रदर्शनार्थो विधेः प्रतिषेधस्य च । एतावदेव वेदस्य तत्त्वरूपः पारमार्थिकोऽर्थो वस्तु। इतिवृत्तसंवर्णनरूपः “सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वमिति" स न तत्त्वार्थः विध्यन्तरेणैक
वाक्यत्वात्प्रशंसापरत्वेन स्वार्थनिष्ठत्वाभावात् । अस्ति पत्र विध्यन्तरम् 'तस्माद्वर्हिषि रजतं २० न देयमिति' 'सोऽरोदीदि' त्यादीनि पुराऽस्य संवत्सराद्गृहे रोदनं भवतीत्यन्तानि तदेकवाक्यतापन्नानि बर्हिषि रजतदाननिन्दया तत्प्रतिषेधं स्तुवन्ति ।
तदुक्तं 'साध्येऽर्थे वेदः प्रमाणं, न सिद्धरूपे' । अर्थवादानां हि सिद्धरूपोऽर्थो । न हि तदर्थस्य कर्तव्यता प्रतीयते । विध्युपदेशपरत्वं च प्रतीयते । यदि च स्वार्थपरा अपि
स्युस्तदा विधिपरत्वं व्याहन्येत । ततश्च प्रतीयमानैकवाक्यता बाधेत । न च संभवत्येक२५ वाक्यत्वे वाक्यभेदो न्याय्यः । न च साध्यस्य सिद्धार्थपरत्वेनैकवाक्यता घटते । तथाहि ।
न किंचिद्वेदेनोपदिश्यते कर्तव्यम् । अतश्चाप्रमाणमेव वेदः स्यात् । विध्यर्थता चावगम्यमाना लिङादीनां त्यक्ता स्यात् । तस्मात्कार्यरूपी वेदस्य तत्त्वार्थ इति मनुर्भगवानाह ।
१ ड-अनुभूत । २ फ-तद्धि। ३ अ-ब-क-ड-फ-प्रत्यक्षणे प्रमीयेत । ४ अ-ब-कड-फ-भेदो। ५ड-ख-महत्त्वख्यापनेन । फ-महत्त्वस्य । एतेना चार्य । ६ अ-फ-एतावान्वेदस्य तत्त्वरूपः पारमार्थिकोऽर्था यस्तु इतिवृत्तः । ७ फ-अ-क-एकवाक्यताबाधनेन ।
For Private And Personal Use Only