________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः
मनुस्मृतिः । त्वमेवैकोऽसहायोऽद्वितीयः। सर्वस्य विधानस्य कार्यतत्वावित् । विधानं शास्त्र विधीयन्तेऽनेन कर्माणीति । तस्य स्वयंभुवो नित्यस्याकृतकस्यापौरुषेयस्य वेदाख्यस्य । सर्वस्य प्रत्यक्षाक्षरस्यानुमेयाक्षरस्य च · अग्निहोत्रं जुहुयादयं सहस्रमानव' इत्येतयाआहवनीयोपस्थाने विनियोगः । अष्टकाः कर्तव्या' इत्यत्र तु स्मृत्याऽनुमीयते वेदः ।
'बहिर्देवसदनं दामीति 'लिङ्गादनेन बर्हिलुनातीति श्रुतेरनुमानम् । अयं हि मंत्रो दर्शपूर्ण- ५ मासप्रकरणे पठितो बर्हिर्लवनं च तत्राम्नातम् । अनेन मंत्रेण लुनीयात् इत्येतत्तु नास्ति । मन्त्रः पुना रूपाद्वर्हिर्लवनप्रकाशनसमर्थः । प्रकरणात्सामान्यतः सिद्धो दर्शपूर्णमाससंबन्धः । स्वसामर्थ्येन तु बहिर्लवने प्रयुज्यते। एषा ह्यत्र प्रतीतिः। प्रकरणादर्शपूर्णमासावनेन मन्त्रेण कुर्यात् कथमिति यथा शक्नुयादित्यनुक्ताऽपि शक्तिः सर्वत्र सहकारिणी । किं च शक्नोति मन्त्रः कर्तुं बर्हिर्लवनं प्रकाशयितुं । ततः प्रकरणात् स्वसामर्थ्याच्चानेन मन्त्रेण 'बर्हिर्जुना- १० तीति' बुद्धौ शब्द आगच्छति सविकल्पकविज्ञानैः पूर्व शब्दः प्रतीयत इति । स बुद्धिस्थः शब्दोऽनुमेयो वेद उच्यते । वेदत्वं च तस्य दर्शपूर्णमासवाक्यमन्त्रवाक्याभ्यां श्रुत्यन्तराभ्यां स्वसामर्थ्येनोत्थापितत्वादितिकुमारिलपक्षः।
अथवा विधिविधानमनुष्ठानं प्रयोजनसंपत्तिस्तस्य स्वयंभुवो नित्यस्यानादिपरंपरायातस्य स्वयंभुवा वेदेन वा प्रतिपाद्यस्य सर्वस्य श्रूयमाणाक्षरप्रतिपाद्यस्य प्रतिपन्नार्थसामर्थ्यगम्यस्य १५ च । द्विविधो हि वैदिको विधिः । कश्चित्साक्षाच्छब्दप्रतिपाद्यो यथा 'सौर्य चळं निर्वपेत् । ब्रह्मवर्चसकाम' इति सौर्ये चरौ ब्रह्मवर्चसकामोऽधिक्रियते । तस्य चरोर्ब्रह्मवर्चसं साधयत इयमितिकर्तव्यता आग्नेयवदित्यवगम्यते । उभयत्रापि चेयं प्रतीतिः शब्दावगममूलत्वात् ।
शब्दोदयोऽपि शब्दादभिधानतः(च)प्रतीयते। तथा अभिधेयप्रतिपत्तितो। विशेषस्तु व्यवधानादिकृतो न शब्दतां विहन्ति । यथा वापीस्थमुदकं हस्तेनाभिहतं प्रदेशान्तरमभिहन्ति २० तदपि हस्तसंयोगेनैवामिहतं भवति न तु साक्षात् । शर्कराणां रेचककर्मण्याद्यप्रयत्नकृता एवोत्प्लुत्योत्प्लुत्य पाताः । तादृशमेतत् । वैकृते कर्मणि विशिष्टेतिकर्तव्यतासंबन्धः । एवं विश्वजिता यजेतेत्युत्पत्तिाधिकारशून्याऽस्तीति स्वर्गकाम इत्यधिकारावगतिः प्रतिपन्नार्थसामर्थ्यगम्या । अन्यतो वैरूप्यं विधानस्य । सर्वस्येतिपदं सर्वस्य तात्पर्यमेवं रूपं, वेदमूलाः स्मृतय इति ज्ञापयितुम् । द्वितीये चैतद्दर्शयिष्यामः ।। ___ ननु लिङादिप्रतिपाद्योऽर्थः कर्तव्यतारूपो विधिः । स च सर्वत्र प्रत्यक्षशब्दप्रतिपाद्य एव । तत्र किमुच्यते द्विविधो हि वैदिको विधिरिति । निर्वपेदितिकर्तव्यताऽवगम्यते । इतिकर्तव्यताऽर्थसामर्थ्यगम्या उक्तेन प्रकारेण । नैष दोषः । निर्वपेद्यनेतेति न केवले
१ ब-फ-अभयं । २ अ-ब-क-ख-दासीति । ३ फ--सिद्धदर्शनपूर्णमास । ४ अ-ब-क-डफ-पूर्वशब्दः प्रतीयते।
For Private And Personal Use Only