________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेघातिथिभाष्यसमलंकृता ।
[ प्रथमः
युज्यन्ते । यथा रासभावसंयोगजः खरो न रासभो नाश्वो जात्यन्तरमेव । अतः वर्णग्रहणेनाग्रहणात्पृथगुपादीयन्ते ।
नन्वनुलोमा मातृजातोया इष्यंते । नेति ब्रूमः । सदृशानेव तानाहुरिति मातृजातिसदृशास्ते न तज्जातीया एव । सोऽप्येषां धर्मो वाचनिको न वस्तुस्वभावसिद्धोऽतः प्रमाणां - ५ तरगोचरत्वाद्धर्मपक्षपतितत्वे शास्त्रोपदेशार्हा एव । प्रतिलोमानामप्यहिंसादयो धर्मा वक्ष्यते । यत्तु धर्महीना इति तद्व्रतोपवासादिधर्माभावाभिप्रायेण । सर्वपुरुषोपकारिता चानेन शास्त्रस्य प्रदर्श्यते ।
यथावत् । ‘अर्हत्यर्थे वतिः' येन प्रकारेणानुष्ठानमर्हति । इदं नित्यमिदं काम्यमिदमंगमिदं प्रधानं द्रव्यदेशकालकर्त्रादिनियमश्च प्रकारोऽर्हतेर्विषयः । अनुपूर्वशः । आनुपूर्वी १० क्रमः । येन क्रमेणानुष्ठेयानि सोऽप्युच्यताम् । “जातकर्मानंतरं चौडमौंजीनिबंधनेत्यादि " । यथावदित्यत्र पदार्थविषयं कार्यमुपात्तं क्रमस्तु पदार्थो न भवत्यतः पृथगनुपूर्वश इत्युपात्तम् ।
1
"
धर्मशब्दः कर्तव्याकर्तव्यतयोर्विधिप्रतिषेधयोरदृष्टार्थयोस्तद्विषयाया च क्रियाया दृष्टप्रयोगः तस्य तु किमुभयं पदार्थ उतान्यतरत्र गौण इति नायं विचारः क्रियते । ग्रंथातरे १५ विस्तरेण कृतत्वादिहानुपयोगाच्च । सर्वथा तावत् अष्टकाः कर्तव्याः ' ' न कलंजं भक्षयेत्' इत्यादावष्टकाविषया कर्तव्यता प्रतीयते, कलंजभक्षणविषयश्च प्रतिषेधः । तदष्टकाख्यं कर्म धर्मस्तद्विषया वा कर्तव्यतेति फले न विशेषः । धर्मरूपोपदेशाच्च यत्तद्विपरीतमधर्मोऽसावित्यर्थात्सिध्यति । अतो धर्माधर्मावुभावपि शास्त्रस्य विषय इत्युक्तं भवति । तत्राष्टकाकरणं धर्मो ब्रह्महत्यादिवर्जनं च धर्मः । अष्टकानामकरणमधर्मो ब्रह्महत्यायाश्च २० करणमधर्मोऽयं धर्माधर्मयोर्विवेकः ।
अर्हसीति सामर्थ्यलक्षणया योग्यतया प्रवचनाधिकारमाचार्यस्याहुः यतस्त्वं समर्थो धर्मान्वक्तमतोऽधिकृतः सन्नध्येप्यसे ब्रूहीति । यो यत्राधिकृतस्तत्तेन कर्तव्यमिति सामर्थ्यगम्यं ब्रूहीत्यध्येषणापद्मध्यान्हियते ॥ २ ॥
उक्तमदृष्टार्थे व्यापारमात्रे धर्मशब्दो वर्तते । तत्र यथाऽष्टकादौ तस्य प्रयोग एवं चैत्यवन्दना - २५ दावपीति । तत्र कतमे धर्मा अत्रोच्यन्त इति संशये धर्मविशेषप्रतिपादनार्थमुक्तसामर्थ्योपादनार्थं च ' त्वमेक इति ' ।
त्वमेको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः || अचिन्त्यस्याप्रमेयस्य कार्यतत्वार्थवित्प्रभो ॥ ३ ॥
१ फ-अ-धर्मादिना इति । २ फ - कर्तव्ययोः । ३ फ-अतो । ४ अ-ब-क-फ-व्यापारमात्रेण ड- अदृष्टार्थे पारमात्रेण । ५ फ-- सामर्थ्यपतिपादन ।
For Private And Personal Use Only