________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मनुस्मृतिः।
अध्यायः पवेशनमासनमनुपयोगात् । आसनेन स्वस्थवृत्तिता लक्ष्यते । तथाभूतः प्रतिवचनसमर्थो भवति । 'अभिगम्येति' केवल एव मनुः कर्म । प्रश्नक्रियायास्त्वेकाग्रमासीनमिति विशेषणम्। कुशलप्रश्नानुरूपकथाप्रवृत्त्यादिनैकाग्रमविक्षिप्तमनस्कं ज्ञात्वा प्रश्नश्रवणे दत्तावधानमिदं वचनमब्रुवन् ।
एकाग्रशब्दो रूढ्या निश्चलतामाह । प्रत्याहारेण परिहृतरागादिदोषसंसर्गस्य विक- ५ ल्पनिवृत्तौ तत्त्वावबोधचिन्तायां मनसः स्थैर्यमेकाग्रता । तथाभूत एव च संनिहितरूपशब्दादिविषावधारणे योग्यो भवति न सदसद्विकल्पयुक्तः। अथवा योगतोऽग्रशब्दो मनसि वर्ततेऽर्थग्रहणे चक्षुरादिभ्योऽग्रगामित्वात् । प्रथमप्रवृत्तियुक्तः पुरःसरो लोकेऽय उच्यते । एकस्मिन् ध्येये ग्राह्ये वाऽग्रमस्येति विग्रहो। व्यधिकरणानामपि बहुव्रीहिर्गमकत्वात् । अत्रापि व्याक्षेपनिवृत्तिरेवैकाग्रता।
प्रतिपूज्य यथान्यायम् । न्यायः शास्त्रविहिता मर्यादा । तामनतिक्रम्य यादृशी शास्त्रेणाभिवादनोपासनादिका गुरोः प्रथमोपसर्पणे पूजा विहिता तथा पूजयित्वा भक्त्यादरौ दर्शयित्वा। महर्षयः ऋषिर्वेदस्तदध्ययनविज्ञानतदर्थानुष्ठानातिशययोगात् पुरुषेऽप्यषिशब्दः। महान्तश्च ये ऋषयश्च तेषामेव गुणानामत्यन्तातिशयेन महान्तो भवन्ति । यथा “युधिष्ठिरः श्रेष्ठतमः कुरूणामिति"। अथवा तपोविशेषात् पूजाख्यातिविशेषाद्वा महान्तः। १५
इदं वचनमब्रुवन् । उच्यतेऽनेनेति वचनं । वक्ष्यमाणं द्वितीयश्लोकप्रश्नवाक्यमिति तदेव प्रत्यासन्नत्वादिदमिति प्रतिनिर्दिशति । येषामपि प्रत्यक्षवस्तुप्रतिनिर्देशक इदंशब्दस्तेषामपि बुद्धिस्थत्वात् प्रश्नस्य प्रत्यक्षता । अथवोच्यत इति वचनं पृच्छ्यमानं वस्त्वब्रुवन् वाक्यपक्ष इदं वाक्यमुच्चारितवन्तः। कर्मसाधने तु वचनशब्द इदमपृच्छन् । द्विकर्मकश्च तदा ब्रू अकथितकर्मणा मनुना । तिसृणां क्रियाणां मनुः कर्म ॥ १ ॥ अभिगम्य प्रतिपूज्य (किं ? ) अब्रुवन्नित्यपेक्षायां द्वितीयः श्लोकः
भगवन् सर्ववर्णानां यथावदनुपूर्वशः॥
अन्तरप्रभवानां च धर्मान्नो वक्तुमर्हसि ॥२॥ ऐश्वर्यौदार्ययशोवीर्यादौ भगशब्दः । सोऽस्यास्तीति, मनुः । तेन संबोधनं भगवानिति । वर्णशब्दश्च तिसृषु ब्राह्मणादिज्ञातिषु वर्तते । सर्वग्रहणं शूद्रावरोधार्थम् । इतरथा महर्षीणां २५ प्रष्तृत्वात् त्रैवर्णिकविषये च प्रश्नः कृतः स्यात् । अन्तरं तन्मध्यं द्वयोर्जात्योः संकरादेकाऽप्यपरिपूर्णा जातिः । अन्तरे प्रभव उत्पत्तिर्येषा तेऽन्तरप्रभवाः अनुलोमप्रतिलोमा मूर्धावसिक्ताम्बष्ठक्षत्तृवैदेहिकादयः । न हि ते मातापित्रोरन्यतरयाऽपि जात्या व्यपदेष्टुं
१ फ-विषयानवधारणे । २ फ-तया। फ-वाक्पक्षे । फ-वीर्यादि । ५ फ-पृष्टत्वात् ।
२०
For Private And Personal Use Only