________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[प्रथमः
अनुक्ते हि किमिदं धर्मशास्त्रमर्थशास्त्रं काकदन्तपरीक्षादिलक्षणरूपं वेत्यपि संशयः स्यात् । अभिहिते तु प्रयोजनेऽयं तावदेवमाह नः “श्रेयसः पन्थानं दर्शयामीति"। न च मे प्रवृत्तस्य काचित्सतिरस्ति । भवतु, पर्यालोचयामीति प्रवृत्तिसिद्धिः ।
या तु स्वाध्यायाध्ययने प्रवृत्तिः साऽऽचार्यप्रयुक्तस्य न स्वाधिकारप्रतिपत्त्या। न हि तदानीं बालत्वात्स्वाधिकार प्रतिपत्तत्सहते, परप्रयुक्त्यैव च प्रवृत्तिसिद्धिः । नाधिकारप्रतिपादनेनापि चावेद्यते । अतस्तत्र प्रवृत्तस्य प्रयोजनमर्थावबोधोऽतश्च प्रवृत्तिः । इह तु “ योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रममिति " गृहीतवेदस्याध्ययनाधिकारः । तदानीं चाभ्युत्पन्नबुद्धित्वात्प्रयोजनमन्विच्छति । भगवतः पुनः पाणिनेरतिसंक्षिप्तानि सूत्राणि नैवार्थान्तराभिधानपरत्वाशङ्का । तत्र आकुमारं च यशः पाणिनेः प्रख्यातमिति सुप्रसिद्धप्रयोजनत्वाद्नुपन्यासः । अयं तु विततो ग्रन्थोऽनेकार्थवादबहुलः सर्वपुरुषार्थोपयोगी तत्र सुखावबोधार्थे प्रयोजनाभिधाने न किंचित्परिहीणम् ।
द्वये च प्रतिपत्तारो न्यायप्रतिसरणाः प्रसिद्धिप्रतिसरणाश्च । तत्र “मनुर्वै यत्किंचावदतद्भेषजमिति” । “ऋचो यजूंषि सामानि मन्त्रा आथर्वणाश्च ये । सप्तर्षिभिस्तु यत्प्रोक्तं तत्सर्व
मनुरब्रवीदि" त्याद्यर्थवादेतिहासपुराणादिभ्यः प्रख्यातप्रभावोलोके तत्प्रसिद्ध्यैव वा निरूपित१५ मूलपातेन प्रजापतिनैतत्प्रणीतमित्येतावतैव श्रोत्रियाः प्रवर्तन्त इति । तान्प्रति कर्तृविशेष
संबन्धोऽपि प्रवृत्त्यङ्गम्। अत एव च प्रश्नप्रतिवचनभङ्गया प्रयोजनोपन्यासः।महर्षयः प्रष्टारः प्रजाप्रतिर्वक्ता, धर्मलक्षणश्चार्थो न लोकावगम्यः शास्त्रैकगोचरोऽयम् । यत्र महर्षयोऽपि संशेरत इत्येवंपर आदेशोऽपि। स तैः पृष्ट इति नाहं पृष्ट इति । तथाऽऽत्मनो ब्रह्मणोऽकृत्रिमप्रतिमत्वं
चेत्येवमादिः । तद्व्युत्पादनार्थो युक्तः-शास्त्रारम्भ इति श्लोकचतुष्टयस्य तात्पर्यम् । २० यथा चानेन पुरुषार्थोपदेशपरता शास्त्रस्योच्यते तथा पदार्थयोजनात्प्रतिपादयि
ष्यामः । तत्र मनुमभिगम्य महर्षय इदं वचनमब्रुवन् । 'धर्मान्नो वक्तुमर्हसीति । स पृष्टः प्रत्युवाच 'श्रूयतामिति'। एवं प्रश्नप्रतिवचने एकार्थप्रतिपादके तात्पर्येण भवतः। अतो धर्मा अत्र प्रतिपाद्यन्त इत्युक्तं भवति । धर्मशब्दश्च लोके श्रेयःसाधने प्रत्यक्षादिभिलौकिकैः प्रमाणैः शब्दादितरैरविहिते प्रयुज्यते । अतः स श्रूयतामिति संबन्धे विशिष्टपुरुषार्थसाधनत्वमुक्तं भवति । मनु म कश्चित्पुरुषविशेषोऽनेकवेदशाखाध्ययनविज्ञानानुष्ठानसंपन्नः स्मृतिपरंपराप्रसिद्धः।तमभिगम्याभिमुख्येन तत्समीपं गत्वा व्यापारान्तरत्यागेन, न यदृच्छया संगम्य। अनेनचाभिगमनप्रयत्नेन पृछ्यमानवस्तुगौरवं वक्तुश्च प्रामाण्यं ख्याप्यते। न ह्यकुशलः प्रति
वचने यत्नेन पृच्छयते आगत्य। एकाग्रमासीनमेकाग्रं स्थितमेकाग्रं सन्तं न त्वत्र बृस्याधु. १ अ-क-उ-चखेद्यते । २ फ-अव्युत्पन्न । ३ फ-पदार्थप्रयोजना । ४ फ-यदृच्छया ।
For Private And Personal Use Only