________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्रीः॥
मनुस्मृतिः। मेधातिथिकृतभाष्यसमलंकृता।
मनुमेकाग्रमासीनमभिगम्य महर्षयः॥
प्रतिपूज्य यथान्यायमिदं वचनमब्रुवन् ॥१॥ श्रीकृष्णाय नमः ॥ वेदान्तवेद्यतत्त्वाय जगत्रितयहेतवे ।
प्रध्वस्ताशेषदोषाय परस्मै ब्रह्मणे नमः ॥ १ ॥ चतुर्भिः पदश्लोकैर्विशिष्टकर्तृत्वमनन्यप्रमाणवेद्यपुरुषार्थोपदेशकत्वं चास्य शास्त्रस्य प्रति-.. पाद्यते प्रतिष्ठार्थम् । प्रतिष्ठिते हि शास्त्रे कर्तृभिः स्वर्गयशसी प्राप्येते यावत्संसारमनपायिनी च भवतः । शास्त्रं च प्रतिष्ठां लभते यदि तत्र केचिदध्ययनश्रवणचिन्तनादिषु प्रवर्तन्ते । न १० च बुद्धिपूर्वव्यवहारिणोऽध्ययनादिष्वनवधृतप्रयोजनाः प्रवर्तितुमर्हन्ति । अतः " पुरुषार्थसिद्धावुपायपरिज्ञानार्थमिदं शास्त्रमारभ्यते" इत्येतत्प्रतिपादनार्थ श्लोकचतुष्टयमाचार्यः पपाठ। न च वाच्यम् अन्तरेणैवादितः प्रयोजनवचनं वक्ष्यमाणशास्त्रपौर्वापर्यपर्यालोचनयैवेदं पर्यवस्यामः किं तत्प्रतिपादनार्थेन यत्नेनेति ।
किंच । उक्तमपि प्रयोजनं यावत्परस्तान्नावमृष्टं तावन्न निश्चीयते । न हि सर्वाणि १५ पुरुषवचास्यर्थे निश्चयनिमित्तम् । न चैप नियमः सर्वत्र प्रयोजनपरिज्ञानपूर्विकैव प्रवृत्तिः स्वाध्यायाध्ययनेऽतन्निबन्धनायाः प्रवृत्तेर्दर्शनात् । पौरुषेयेष्वपि ग्रन्थेषु नैव सर्वेषु प्रयोजनाभिधानमाद्रियते । तथाहि । भगवान्पाणिनिरनुक्वैव प्रयोजनम् । अथ शब्दानुशासनमिति' सूत्रसंदर्भमारभते । अत्रोच्यते । आरम्भेऽनवधृतप्रयोजना नैव प्रथमतो ग्रन्थमुपाददीरन् । अनुपादानाच्च कुतः शास्त्रं कात्स्येन पालोचयेयुः । किंच पौर्वापर्यपर्यालोचनया २० योऽर्थो बुद्धिगोचरतामावहति स एव त्वादितः संक्षेपेणोच्यमानः सुग्रहो भवति । तदुक्तम् " इष्टं हि विदुषां लोके समासव्यासधारणमिति"।
यत्तूक्तमपि न निश्चीयते पौरुषेयेभ्यो वाक्येभ्योऽर्थनिश्चयाभावात् एवमेवायं पुरुषो वेदेति प्रत्ययो न त्वेवमर्थ इति । नात्र विवदामहे निश्चयोऽस्ति नास्तीति । ग्रन्थगौरवप्रसंगात् अर्थसंशयेऽपि प्रवृत्तिसिद्धेः। नियतविषयसंशयोत्पत्तिर्नान्तरेण प्रयोजनवचनम्। २५
१ अ-ब-क-श्रीगणेशायनमः। ड-ॐ नमो भगवते वासुदेवाय । २ अ-क-ड-कर्तृणां । ३ ड-प्रथेते ४ प्रयोजनवचनं च। ५फ-पौर्वापर्यालोचतया योऽर्थो । ६ फ-अ-भवति प्रत्ययः ७ फ-प्रवृतिसिद्धौ।
For Private And Personal Use Only