________________
Shri Mahavir Jain Aradhana Kendra
५१६
www. kobatirth.org
२०
मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः
बलिं करं धान्यादीना पष्ठाष्टमादिभागमाप्तैरर्यादुपधाशुद्धैः । यथोक्तमाम्नाय - परश्च स्यात् । आगमप्रधानतर्कशास्त्राण्याश्रयेत् । अथवा पारंपर्यागतमेव भागं गृह्णीयान्नाधिकम् । वर्तेत पितृवन्नृषु करादेष्वन्येषु च स्नेहबुद्धया वर्तेत ॥ ८० ॥ अध्यक्षान्विविधान्कुर्यात्तत्र तत्र विपश्चितः ॥
तेऽस्य सर्वाण्यवेक्षेरन्नृणां कार्याणि कुर्वताम् ॥ ८१ ॥
अध्यक्षा अधिकृताः प्रत्यवेक्षितारस्तान्कुर्यात् । विविधान् बहुप्रकारान् मृदूः नुग्रान् धार्मिकान् अर्थार्जनपरांश्च । तत्र तत्र सुवर्णकोष्ठागारे पण्यकुप्यकर्मस्वधिकृताप्रत्यवेक्षितारस्तान् शुल्कनौहस्त्यश्वरथपदात्यादीन् विपश्चितः स्थापयेत् । सर्व एते अमात्य - गुणसंपद्युक्ता विज्ञेयाः । यथोक्तमध्यक्षप्रचारे " ते अध्यक्षाः सर्वाणि कार्याण्य१० वेक्षेरन्नन्येषां नृणां तत्स्थानोपयोगिनां कार्याणि कुर्वतां हस्त्यध्यक्षेण हस्तिपकाः अश्वाध्यक्षेण तुरङ्गमाद्याः गवाध्यक्षेण कर्षणादयः " ॥ ८१ ॥
२५
Acharya Shri Kailassagarsuri Gyanmandir
आवृत्तानां गुरुकुलाद्विप्राणां पूजको भवेत् ।।
नृपाणांमक्षयो ह्येष निधिर्ब्राह्मोऽभिधीयते ॥ ८२ ॥
गुरुकुलेऽधीतावगतवेदार्था गार्हस्थ्यं प्रतिपित्सवो भनेन पूजयितव्याः । इदम
१९ नैय्यमिकदानम् । अत एवाह नृपाणामक्षय इति । नित्यत्वादक्षयो यावज्जीविकः काम्यत्वे वा फलभावि निवर्तते । यदुक्तं सांतानिकं वक्ष्यमाणमिति तदेवेदम् ।
अन्ये त्वाहुः । तत्रार्थिभ्यो दानं विहितम् । इह त्वनर्थिनामधिकारात् विधानमात्रया वस्त्रयुगादिदानेन च नराणां पूजा कर्तव्या । तथा चाह । विप्राणां पूजको भवेदिति ॥ निधिरिव निधिः । उत्तमफलत्वात् । ब्रह्मसंनिहितो ब्राह्मः ॥ ८२ ॥
न तं स्तेना न चामित्रा हरन्ति न च नश्यति ॥ तस्माद्राज्ञा निधातव्यो ब्राह्मणेष्वक्षयो निधिः ॥ ८३ ॥
ब्राह्मणेभ्यो योऽर्थो दत्तः न तं स्तेना आटविकादयोऽमित्राश्व शत्रवो हरन्ति ॥ ना भूमिष्ठमिव विस्मृत्य प्रतिभाव्येन वा नश्यति ॥ ८३ ॥
न स्कन्दति न व्यथते न विनश्यति कर्हिचित् ॥ वरिष्ठमग्निहोत्रेभ्यो ब्राह्मणस्य मुखे हुतम् ॥ ८४ ॥
एष एवार्थोऽवश्यानुष्ठेयः प्रकारान्तरेण पुनरुच्यते । अग्नौ यद्धूयते तत्कदाचित् स्कन्दत्यधः पतति हूयमानम् तथा च्यवते पुरोडाशादिक्षामतया । ततश्च कर्मवैगुण्या
: ष-अक्षय । २ ख-ड-क्ष-प्रतिपत्सव, । ३ ख -ड-क्ष- नित्यत्वावेक्षणयार्यावज्जीविक कर्तृघतयो फलेभावि- । ४ ण - कामत्ववीतायां निवर्तते । ५ ण-अर्थिनामपिक यानमात्रया । ६ ण- ब्रह्मसुनिहितो • ड-ण-क्ष-प्रतिभवेन । ८ फ-ख-ड-क्ष-स्कन्दते । ९ फ-ड-ण-क्ष- अवश्यानुष्ठेयार्थः ३
For Private And Personal Use Only