________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५१४ मेधातिथिभाष्यसमलंकृता।
[सप्तमः सर्वेण तु प्रयत्नेन गिरिदुर्ग समाश्रयेत् ॥ एषां हि बाहुगुण्येन गिरिदुर्ग विशिष्यते ॥ ७१ ॥ त्रीण्याद्यान्याश्रितास्त्वेषां मृगगर्ताश्रयाप्सराः त्रीण्युत्तराणि क्रमशः प्लवङ्गमनरामराः ॥ ७२ ॥
आद्यानि त्रीणि धनुर्दुर्गादीनि । आश्रिताः आश्रयं कृतवन्तः । मृगा गर्ताश्रया गर्गरनवुलादयः । अप्सरा ग्राहकूर्मादयः । एषां दुर्गाणां तदाश्रितानां च यादृशा गुणदोषास्तादृशा एव राज्ञामपि भवन्तीति प्रदर्शनार्थ त्रीण्युत्तराणि । प्लवङ्गन्माः कपयः॥७२॥
यथा दुर्गाश्रितानेतान्नापहिंसन्ति शत्रवः ॥ तथाऽरयो न हिंसन्ति नृपं दुर्गसमाश्रितम् ॥ ७३ ॥
दुर्गविधानप्रयोजनश्लोकोऽयम् । अत्यल्पबला अपि दुर्गाश्रिता महाबलैररिभिर्न सहसा शक्यन्तेऽभिभवितुमतो दुर्गाश्रयो युक्तः ॥ ७३ ॥
एकः शतं योधयति प्राकारस्थो धनुर्धरः॥
शतं दशसहस्राणि तस्माद्दुर्ग विधीयते ॥ ७४ ॥
सुप्रसिद्धमेतदुर्गप्रयोजनं प्राकारदृष्टान्तेन गिरिदुर्गबलमेतदिति तदयुक्तं महीदुर्गेऽपि १५ प्राकारसम्भवात् । तस्मात्सर्वेषां दुर्गाणां तत्प्रयोजनं स्वबुद्धया रूप्यते ॥ ७४ ॥
तत्स्यादायुधसंपन्न धनधान्येन वाहनैः ॥ ब्राह्मणैः शिल्पिभिर्यन्त्रैर्यवसेनोदकेन च ॥ ७५ ॥
आयुधैः खड्गप्रासादिभिः संपन्नमुपेतम् । आयुधग्रहणं वर्मशिरस्त्राणोपस्कारादे. रन्यस्यापि युद्धोपकरणस्य प्रदर्शनार्थम् । धनं रूप्यसुवर्णादीनि । वाहनानि रथाश्वादयः । शिल्पिभिर्यन्त्रावाहतक्षप्रभृतिभिर्यवसेन ब्राह्मणैर्मन्त्रिपुरोहितैरन्यैर्वा दण्डिकापोतेन ध्वजशङ्कया कदाचिन्नृपधर्मसाहाय्येन प्रवर्तन्ते । प्रदर्शनार्थत्वाच्च भिषगौषधाद्यक्षेत संरोहणाधुपयोगिसंनिधापयितव्यम् ॥ ७९ ॥
तस्य मध्ये सुपर्याप्तं कारयेद्गहमात्मनः॥ गुप्तं सर्वतुकं शुभ्रं जलवृक्षसमन्वितम् ॥ ७६ ॥
[मंदरस्यापि शिखर निर्मानुष्यं न शिष्यते।
मनुष्यदुर्ग दुर्गाणां मनुः स्वायंभुवोऽब्रवीत् ॥१॥ १ ख-ड-क्ष-मदूरश्च प्रल्पबला । २ ख-ड-क्ष-तस्मादुर्गाणि कारयेत् । ३ + एतत् तदयुकं ।
For Private And Personal Use Only