________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मध्यायः] मनुस्मृतिः।
५१३ अमात्ये सेनापतौ दण्डो हस्त्यादिबलमायत्तं तदिच्छया कार्येषु प्रवृतेः। दण्ड वैनयिकी यो विनेयः स्वपरराष्ट्रगतः स दण्ड्यो यतः विनयाश्रिता वैनयिकी क्रिया कार्यम् । नृपतौ कोशराष्ट्रे आयत्ते । सञ्चयस्थानं कोशः । राष्ट्रं जनपदः । द्वेच ते पराधीने न कर्तव्ये । स्वयमेव विलम्भनीयफलपासाच्च । दूते सन्धिविपर्ययौ । प्रियवचनेन स्वामिकार्यप्रदर्शनेन सन्धिः । तद्वैपरीत्येन विग्रहः । एतदुभयं दूतायत्तम् ॥६५॥ ५
एवं दूतार्थानुवादः । एष एवार्थः पुनरुच्यते दूत एव हि संधत्ते भिनत्त्येव च संहतान् ॥
दूतस्तत्कुरुते कर्म भियन्ते येन मानवाः ॥ ६६ ॥ यथा दूतः संधत्ते । यथोक्तं संहतानेकीभूतान्स एव भिनत्ति । अनुक्तमपि प्रियं संदिशति । प्रतिकूलमनाचरितमित्यादि । सुवर्णादिद्रव्यमप्रतिश्रुतमित्याह । एवं भिनत्ति १० दूतः । तदेतत्कर्मानन्तरोपदिष्टं येन राजानो भिद्यन्ते न वाक्पारुष्यापन्ना एवं संमवन्ति ॥ १६ ॥ अन्यदपि दूतकार्य दर्शयति ।
स विद्यादस्य कृत्येषु निगूढङ्गितचेष्टितैः॥
आकारमिङ्गितं चेष्टां भृत्येषु च चिकीर्षितम् ॥ ६७ ॥ स दूतो यातव्यस्य राज्ञः कृत्येषु कार्येषु ॥ ६७ ॥
बुध्वा च सर्व तत्वेन परराजचिकीर्षितम् ॥ तथा प्रयत्नमातिष्ठेद्यथाऽऽत्मानं न पीडयेत् ॥ ६८ ॥ जाङ्गलं सस्यसंपन्नमार्यप्रायमनाविलम् ॥ रम्यमानतसामन्तं स्वाजीव्यं देशमावसेत् ॥ ६९॥ २० धन्वदुर्ग महीदुर्गमन्दुर्ग वार्तमेव वा ॥
नृदुर्ग गिरिदुर्ग वा समाश्रित्य वसेत्पुरम् ॥ ७० ॥ उक्तप्रकारेण द्विगुणोत्सेधेनैष्टकेन शैलेन द्वादशहस्तादूर्ध्वमुद्धतेन तालमूलेन कपिशीर्षचिताग्रेण दृढप्रणाल्या परिकृतं धनुर्दुर्गम् । महीदुर्गमगाधेनाश्रयणीयेन चोदकेन परिवेष्टितं दुर्गम् । समंततोऽर्धयोजनमात्रं घनमहावृक्षान्वितं वार्तम् । चतुरङ्गबलाधिष्ठितं २५ प्रवरायुधवीरपुरुषप्रायं नृदुर्गम् । गिरिपृष्ठे दुगरोहमेवैकमार्गानुगतमन्तर्नदीप्रस्रवणोदकं गिरिदुर्गम् ॥ ७० ॥
१ ख-ड-क्षी-च
For Private And Personal Use Only