SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१२ मेधातिथिभाष्यसमलंकृता। [सप्तमः दूतं चैव प्रकुर्वीत सर्वशास्त्रविशारदम् ।। इङ्गिताकारचेष्टनं शुचिं दक्ष कुलोद्गतम् ॥ ६३ ॥ दूतस्यायमधिको गुणः इङ्गिताकारचेष्टज्ञता । परविषये राज्ञे मन्त्रिणां च संधित्सतामिङ्गितानि दूतस्यादरेण संपरिग्रहः । विश्वसनं मुहुर्मुहुः संपूर्णतद्वाक्यस्य तस्य चाभिनंदनं एतानि विपर्यस्तान्युपेक्षेत । आकारशरीरवैकृत्यं म्लानिर्मुखस्य वर्णवैकृत्यम् । तूष्णींभावो दीर्घोष्णनिःश्वासता एवमादिविकारैर्दैन्यं सूचयति । अस्ति काचिदापदस्य तेनायं विवर्ण इति वाक्यवैशारद्यम् । शारीरसंस्कारः प्रसन्नमुखता एवमादि हर्ष सूचयति । शुचिस्त्रीगतेऽर्थे गमनविशेषैर्यतः स्त्रीसंबन्धे मन्त्रभेदः परिभवश्च ।। ६३ । । *अनुरक्तः शुचिर्देशः स्मृतिमान्देशकालवित् ॥ वपुष्मान्वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते ॥ ६४ ॥ अनुरक्तः अहार्यो भवति । दक्षः देशकालौ नातिकामति । स्मृतिमानमुषितस्मृतिप्रसङ्गेन स्वामिसंदेशं कथयति । देशकालवित् देशकालौ ज्ञात्वाऽन्यदपि संदिष्टं तत्कालयोग्यं कथयति । वपुष्मास्वाकृतिः प्रियदर्शनत्वान्निपुणमुचितं वक्ति । वीतभी अनेन निपुणमुच्यते । वाग्मी संदेशस्योत्तरे प्रतिवचनसमर्थो भवति ॥ ६४ ॥ उक्तदूतगुणानां संपादनाय तत्प्रयोजनमाह अमात्ये दण्ड आयत्तो दण्डे वैनयिकी क्रिया ॥ नृपती कोशराष्ट्रे च दूते संधिविपर्ययौ ॥ ६५ ॥ १ ख-ड-क्ष-अतो गुणविधानार्थमन्यदुचितानुवादपदपूरणं । २ ख-ड-क्ष-स्मृतिप्रसङ्गेन । *सन्धिविग्रहकालज्ञान समर्थानायतिक्षमान् ॥ परैरहार्यान वृद्धाश्च धर्मतः कामतोऽर्थतः ॥१॥ समाहर्तु प्रकुर्वीत सर्वशास्त्रविपश्चितः । कुलीनान वृत्तिसंपन्नान निपुणान् कोशवृद्धये ॥२॥ आयव्ययस्य कुशलान् गणितज्ञानलोलुपान् ॥ नियोजयेद्धनिष्ठान सम्यक्कार्यार्थचिन्तकान् ॥३॥ कर्मणि चातिकुशलान् लिपिज्ञानायतिक्षमान् । सर्वविश्वासिनः सत्यान् सर्वकार्येषु निश्चितान् ॥ ४ ॥ अकृताशांस्तथा भर्तुः कालज्ञांश्च प्रसगिनः ।। कार्यकामोपधाशुद्धा बाह्याभ्यन्तरचारिणः ॥५॥ कुर्यादासनकार्येषु गृहसंरक्षणेषु च । ] + For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy