SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः] मनुस्मृतिः। ५११ विपश्चिता विदुषा अर्थशास्त्रज्ञेन परं मन्त्रमत्यन्तं गोपनीयं मन्त्रयेत् षाडण्ययुक्तम् । अधिकतरप्रज्ञो हि ब्राह्मणो धार्मिकत्वाच्च विश्वसनीयः ॥ ५८ ॥ नित्यं तस्मिन्समाश्वस्तः सर्वकार्याणि निक्षिपेत् ॥ तेन साधं विनिश्चित्य ततः कर्म समारभेत् ॥ ५९ ।। ताशि ब्राह्मणे सर्वराष्ट्रमण्डलं निक्षिप्य विश्वस्तो राज्यसुखं भुञ्जीत च । सह ५ विनिश्चित्य यानासनादि कर्म व्यवहारसंग्रहादि समाचरेत् ॥ ५९ ॥ अन्यानपि प्रकुर्वीत शुचीमाज्ञानवस्थितान् ॥ सम्यगर्थसमाहर्तृनमात्यान्सुपरीक्षितान् ॥ ६०॥ यदुक्तं ' सप्त चाष्टौ वेति' तस्यायमपवादः । अर्थसमाहर्तृन्संनिधातॄन्सुपरीक्षितानुपधाभिः कुर्यात् ॥ ६ ॥ निवर्तेतास्य यावद्भिरितिकर्तव्यता नृभिः ।। तावतोऽतन्द्रितान्दक्षान्प्रकुर्वीत विचक्षणान् ॥ ६१ ॥ सर्व एते मन्त्रज्ञा विचक्षणाः विद्वांसश्चाधिकारिकाः कर्त्तव्याः । दक्षान् भयसंनिधानेऽप्यव्ययहेतावत्युत्साहवन्तः । अतन्द्रितान् अनलसान् । उक्तं चाध्यक्षप्रचारे " बुद्धिमाननुरक्तश्च युक्तो धर्मार्थकोविदः । शुचिर्दक्षःकुलीनश्च मन्त्री यस्य स राज्यभाक् ॥ १५ "तस्मिन्निक्षिप्य कार्याणि भोगसंगी न नश्यति । रानवश्यविधिस्तेने दानानुग्रहणैरिति"॥३१॥ तेषामर्थे नियुञ्जीत शूरान्दक्षान्कुलोद्गतान् ॥ . ___ शुचीनाकरकर्मान्ते भीरूनन्तर्निवे ने ॥ ६२ ॥ अर्थे आयव्ययव्यवहारे । शुचीनर्थेष्वस्पृहान्नियुञ्जीत । तान्यर्थस्थानान्युदाहरणेन दर्शयति । आकरकर्मान्त इति । आकराः सुवर्णरूप्याद्युत्पत्तिसंस्कारस्थानानि । कर्मान्ता २० भक्ष्यकार्पासावापादयः । अंतर्निवेशने अन्तःपुरभोजनशय्यास्त्रीगृहाणि । भीरवस्तत्र नियोज्याः । शूरा हि राजानमेकाकिनमुपजप्ता हन्युः । दक्षाः सर्वेऽपि व्युत्थानशीलतया द्वन्द्वोपरिपातमपरिगणय्य स्वामिनः कार्यकाले नातिपातयन्ति ॥ ६२ ॥ १ ख-ड-क्ष-क्रम । २ ख-ड-क्ष-तादृशे । ३ ख-ड-क्ष-राज्यं । ४ ख-ड-क्ष-राज्यं सुखं । ५ ख-ड-क्ष-विधिश्वेतदाना अनुग्रहैराितीभमायभि। ६ ख-ड-क्ष-कारत् । ७ ख-ड-क्ष+आये व्यये च नियतान् गणितज्ञानकोविदान् । ८ ख-ड-क्ष-अर्थेशान् । ९ ख-कर्माता इति कर्पासमदादय : डक्ष--मदादय , १० फ-पुनर्भोजन For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy