________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मेधातिथिभाष्यसमलंकृता ।
[सप्तमः
राज्यं तु प्रति महारंभमुदयकर्म तद्योगः फलवांश्वानपेक्षमाणस्य महत्पलमुपोति । न चैकेन षाड्गुण्यं वेदितुं शक्यम् । तस्मादात्मसमाः परीक्षिताः सहायास्तेषु तेषु कार्येषु कर्तव्याः ॥ ५५॥
तैः सार्ध चिंतयेन्नित्यं सामान्यं संधिविग्रहम् ॥ स्थानं समुदयं गुप्तिं लब्धप्रशमनानि च ॥५६॥
तैर्बुद्धिसचिवमुख्यैश्वार्थाधिकारिभिः सह सामान्यं यन्नातिरहस्यं तचिन्तयेत्सन्धिविग्रहम् । किं सन्धिः संप्रति युक्तोऽथ विग्रह उभयत्र गुणदोषान्विचारयेत् । इदं कर्त्तव्यावधारणं तु स्वबुद्धया कुर्याद्यथाऽस्य परप्रयोज्यता न भवति । इदं चापरं चिन्तये
स्थानं तच्चतुर्विधं दण्डकोशपरराष्ट्राणि । तत्र दण्डो हस्त्यश्वरथपदातयः । तेषां प्रति कर्म १० पोषणरक्षणादि चिन्त्यप्रतिकर्म । न ह्यसमाधानं प्रधानं च यथा कोशस्य हेमरूप्यबाहुल्यं
प्रचुररूप्यताऽऽयव्ययलक्षणं च । कोशस्य यानि न्यायस्थानानि तानि न व्ययितव्यानि न विलम्बनीयानि भृत्यानाम् । तथा राष्ट्रस्य देशपर्यायस्य स्वाजीव आत्लसंधारण परसंधारणेन नदीवृक्षाः पशवः शत्रुद्वेषाक्रान्तप्रायः गुप्तिगोचरः पशुमान् अदेवमातृकः
आपदि च दण्डकरग्रह इत्येवमादि। पुरस्य वक्ष्यति"तस्मादायुधसंपन्नमिति"। अथवा स्थानं १५ स्वदेशाचाप्रैच्यवनम् । एवं समुदायोऽपि चिन्त्यः । तत्र कृषिनगुल्मस्थानानि वाणिज्यमु
क्तदण्ड इत्येवमादि । गुप्तिं स्वराष्ट्रगतां वक्ष्यति । लब्धप्रशमनं च देवतासमं विद्यावतता धार्मिकाणां च मानदानत्यागायोगः । अवितानां चाभ्यनुज्ञानं सर्वबन्धनमोक्षः । अनुग्रही दीनव्याधितानां उत्सवानां चापूर्वाणां प्रवर्त्तनं प्रवृत्तानामनुवृत्तिः । यच्च कोशदण्डोपाधि)क
मधार्मिकचरित्रं तदपनीय धर्मव्यवहारान् स्थापयेत् । अधमे चारित्रमकृतमन्यस्य कृतं २० वाऽन्यः प्रवर्तयेत्। न वा धर्मकृतं चान्यैर्निवर्तयेदिति । एवं स्थानादीनि चिन्त्यानि॥५६॥
तेषां स्वं स्वमभिप्रायमुपलभ्य पृथक् पृथक् ॥ समस्तानां च कार्येषु विदध्याद्धितमात्मनः ॥ ५७ ॥
तेषां पृथक्पृथगेकैकस्य रहस्यभिप्रायं हृदयनिहित भावमुपलभ्य समस्ताना संहतानां यत्कारणं कश्चित्पुरुषः परिषदि अप्रतिभानवान्भवति रहसि प्रगल्भः कश्चित्परि२५ षद्यासादितप्रज्ञः ततश्च तान्समस्तान्पृच्छेत् । ततः स्वयं यद्युक्ततरं हितमात्मने तव्यवस्थेद्विदध्यात् । तत्प्रामाण्यं तेषामेवान्यतमेनोपदिष्टं वा यदप्रत्यतीकं निर्दोषं च ॥ १७ ॥
सर्वेषां तु विशिष्टने ब्राह्मणेन विपश्चिता ॥
मंत्रयेत्परमं मंत्रं राजा पागुण्यसंयुतम् ॥ ५८॥ ख-ड-क्ष-कारणैः । २ ख-ड-क्ष-परप्राणवान् । ३ फ-तथा । ४ ख-ड-क्ष-यथ । ५ ख-ड-क्ष-संधारणपरः संधारणेन नदरक्षये रावच्य । शद्वेषी शांताप्रायो-। ६ ख-ड-क्ष-प्रष्टावन । ७ ख-ड-क्ष-उदितानां । ८ ख-ड-क्ष-विहितं । ९ व-ह-क्ष-च विशिष्टानां ।
For Private And Personal Use Only