________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्य यः]
मनुस्मृतिः।
१०९
उच्यते । तथा मरणेऽभीरुः । युद्धोत्साही । एक एव परिभवभया(हुभिर्विरुध्यते । दृढप्रहारी बलवान् । लब्धलक्षाः परिदृष्टकमतामनेनाहाः दृष्टखङ्गव्यापाराः कृताथोधि. काराः अनुभूतमन्त्रिभूमयः । कुलोद्गतान् कुलांकुशंनिगृहीता ह्यकार्ये न वर्तन्ते । सचिवान् सहायान् । नित्यमेते राज्ञः पार्श्ववर्तिनो भवेयुः । सप्त वाऽष्टौ वा । नियमोऽयं येन चाल्प एकचित्ता भवन्ति । ततश्च रानमन्त्र उद्घाटकः स्यात् । बहूनामपि ५ मन्त्रभेदः । तस्मादेतावन्त एव कर्त्तव्याः । सुपरीक्षितान् धमार्थकामभयोपधाभिः सेयं परीक्षोच्यत । पुरोहितः स्वल्पकार्ये राज्ञा व्याजेनाधिक्षिप्तः बहुनाऽर्थसंप्रदानेनाप्तपुरुषै. रेकैकममात्यमुपजपेत् रानविनाशाय । एतच्च सर्व मन्त्रिभ्यो रोचते । अथ कथं भवत इति प्रत्याख्याने धर्मोपंधाशुद्धः । *सेनापतिः केनचिदुपदेशेन पूर्ववदविक्षिप्तः बहुना च संप्रदानेनाप्तपुरुषैरेकैकमात्यमुपजपेत् राजविनाशाय। एतच्च सर्वमन्त्रिभ्यो रोचते । अथ १० कथं भवत इत्याख्याने अर्थोपधीशुद्धः । परिवानिकान्तःपुरे लब्धविश्वासा एकैकममात्यमुपजपेत् । सा राजमहिषी भवन्तं कामयते कृतसमागमोपायेति प्रत्याख्याने कामोपधाशुद्धः । राजप्रयुक्ता एव केचित्परुषाः प्रमादमाविष्कयः कृतसमयैरमात्यै राजा हन्यत इति । उपलब्धप्रमादः पुरोहितस्याप्तः कश्चिदमात्येषु मन्त्रं श्रावयेत् । इमं प्रवादमुपश्रुत्य भवतां निग्रहो राज्ञा क्रियत इति तेषामेव चान्यतमः पूर्वमेव कृतसंवित्कः प्रत्येकं राजामात्येष- १५. त्साहयेत् । तत्र ये प्रत्याचक्षते ते भयोपधाशद्धाः । है अथवा मौलीस्तावत्कुर्यादर्थप्रमादकर्तृसंनिधातन ये अर्थ ग्रामेभ्यः समाहरन्ति समाहृतं च रक्षन्ति विनियुञ्जते च । सर्वथाऽर्थव्यवहारिणो मौलाः कर्त्तव्या इत्युक्तं भवति । शास्त्रविदो बुद्धिसचिवा मंत्रिणः । शूरान् बलाध्यक्षान् । लब्धलक्षानित्यादि सर्वेषां विशेषणमेकैकस्य समुदितपरीक्षा च योक्ता राजविषया राजामात्येषूत्साहनमिति सा २०. न युक्तति मन्यन्ते । एष एव हि बुद्धिभेदो भवेदमात्यानाम् । तस्मादन्या काचित्स्त्री साध्वी प्रयोज्या अन्यश्च विनाशविषय उदाहार्यः ॥ १४ ॥
अपि यत्सुकरं कर्म तदप्येकेन दुष्करम् ॥
विशेषतोडेसहायेन किं तु राज्यं महोदयम् ॥ ५५ ॥ यत्सामान्यं गृहस्थस्य गृहकृत्यं गोऽश्वादिपालनं सुकरमिति स्थितम् । स एव २५ गां पालयति स एव दोधि । न शक्यमेतदेकेन कर्ते तदप्येकेन दुष्करं विशेषतोऽसहायेन । दुष्करमशक्तेन न शक्यं कर्तुम् । कथं ह्येको गां चारयति । कथं च भार्या रक्षतु कथं मेवतु।
१ ख-ड-क्ष- मरेणतीवोत्साही । २ ख-ड-क्ष-भयादीनि विरुध्यते; ख-क्ष-भयदिनिर्विरुध्यते । ३ ख-ड-क्ष-छलप्रहारी । ४ फ-तामननोहा । ५ ख-ड-क्ष-कुलाकुल । ६ख-ड-क्ष-येनाल्प । ७ ख-ड-क्ष-यतः पुरोहितः स्वकार्य:-1८फ-उपजयेत् । ९ फ-राजा। १० ख-ड-क्ष-सर्वमन्त्रोभ्यो। ११ ख-ड-क्ष-इत्यार याने । १२ फ-अर्थोपधा-- *-*एतचिन्हान्तर्गतपाठः फ-पुस्तके नोद्धृतः । १३ फ-अर्थप्रसिसिद्धिः । १४ फ-मौल्यं । १५फ-समानकर्तृ। १६ फ-राजपाध्यस्य साहनमिन्यादिन्यसारयुक्तानि । १७फ-न वेद । १८ फ-विनाशा । १९ ख-ड-क्ष-विशेषतः सहायेन । २० ख-ड-क्ष-तत् । २१ ख-एवं; क्ष-स एवं । २२ ख-ड-क्ष-न वात्र रक्षाकर्तुं च गृहेष्वयमेव तु राज्यं च प्रतिमहारं शक्यं । तस्मादात्मसमाः- ।
For Private And Personal Use Only