________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५०८
मेधातिथिभाष्यसमलंकृता ।
[ सप्तम
मृगयायां तु व्यायामः पित्तश्लेष्मबन्धः मेदादिनाशः चले स्थिरे वा काले लक्षः परिचयः । प्रहरणे वैशारद्योपजननं ग्राम्यननपरिजयश्चेति । एवं कामजस्य चतुष्कस्य वर्गस्य स्ववर्गे पूर्व पूर्व पापीयः ।।
क्रोधनस्यापि च दण्डपातदोषानुबन्धः अर्थप्नेष्वेवानृतादिषु संगः । दण्डपातवाक्पारुष्ययो५ दण्डपातनं गरीयः । दण्डपातने हि शरीरविनाशादिशक्यं प्रतिसंधानम् । वाक्पारुप्ये त्वमर्षजः क्रोधाग्निः शक्यते दानमानाम्भोभिः शमयितुम् ।
वाक्पारुष्यार्थदूषणयोर्वाक्पारुष्यं गरीयः । तेनस्विनो हि पारुष्यवचनचित्तसंक्षोभे भयं नासादयन्ति । तथा च प्रवादः
"स्थिरं साध्वसित काण्डं भित्वा वाऽस्थिप्रवेशितम् । विशल्यमझं कुर्वन्ति न वाचो हृदयादपि । १० "रोहते सायकैर्विद्धं वनं परशुना हतम् । वाचा दुरुक्तं बीभत्सन्न संदोहति वाक्क्षतम्॥"
भाग्यायत्तत्वादर्थस्येति न तेनस्विनोऽर्थदूषणं गणयन्ति । एवमेतयोर्वर्गयोः पूर्वस्य पूर्वस्य गरीयस्त्वं निदर्शितम् ॥ ५२ ॥
व्यसनस्य च मृत्योश्च व्यसनं कष्टमुच्यते । व्यसन्यधोऽधो व्रजति स्वर्यात्यव्यसनी मृतः ॥ ५३ ॥
यद्यपि मृत्युव्यसने सर्व हरेताम् तथाप्येवं विशेषः । मृत्युरस्मिल्लोके सर्वहरः । व्यसनं पुनरिह चामुत्र च । तदिदमाह । व्यसन्यधोऽधो व्रजति नरकं गच्छतीत्यर्थः । व्यसन शब्देन अत्यन्तोऽभ्यास एतद्वर्गविषय उच्यते । अतश्चाभ्यासः प्रतिषिध्यते । न त्वीषदासेवनम् । व्यसनभूता ह्येते धर्मार्थकामप्राणहरा भवन्त्यन्यस्यापि पुरुषस्य । किं
पुना राज्ञः । किंच असेवनमप्ययुक्तं पानादीनामाशय चेति । यतोऽभ्यास२० प्रतिषेधः ॥ ५३॥
मौलाञ्च्छास्त्रविदः शूराँल्लब्धलक्षान्कुलोद्गतान् ॥
सचिवान्सप्त चाष्टौ वा प्रकुर्वीत परीक्षितान् ॥ ५४॥
पितृपितामहान्वयागता बहुसुतधनबान्धवाः प्रकटगोभूमिधनास्तद्देशवासिनो मौलाः । मूलं प्रतिष्ठा तत्र भवा मौलाः । शास्त्रविदः शास्त्रं शासनं भृत्यविधिज्ञानं २५ तेनान्येऽपि गुणा गृह्यन्ते । तद्यथा । प्राज्ञः दृढकारी धारयिष्णुर्दक्षः वाग्मी प्रबलः
प्रतिपत्तिमानुत्साहप्रभावयुक्तः क्लेशसहः शुचिर्दानशीलः योग्यसत्वयुक्तः स्तंभचापलहीनः प्रियो वैरिणामकर्तेति । शूरशब्देन राजकार्ये शरीरकलत्रापत्यधनादिष्वपि निरपेक्ष
१ ख-ड-क्ष-मेदादिनाम च ते स्थिते च कालाय लक्ष्यपरिचय । २फ-प्रहरणं । ३ फ-कुलोद्भवान्। ४ ख-ड-क्ष-परीक्षकान् । ५ ख-ड-क्ष-पितामहाद्यागता । ६ ड-शास्त्रविदः समानं शास्त्रविदः समानं शास्त्रविधानं; ख-क्ष-शास्त्रविदः समानं शास्त्रविधानं । ख-ड-क्ष-भूत्यविधिज्ञाः । ८ फ-शुचिदान शील ।
For Private And Personal Use Only