SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ] मनुस्मृतिः । ताविति । यदि लोभो न जायेत कथं समानफलानि स्युः । कारणदोषो हि कार्यदोष भासयति । अतस्तत्कार्यत्वाद्वयसनेषु चेद्दोषो ध्रुवं कारणस्याप्यसौ दोष उक्तो भवति । अथवा लुब्ध एव पैशुनादिबहिष्कार्येष्वभिष्वङ्गं गच्छति । इतरस्तु स्वल्पके विषये अनुनयेन वोपशाम्यति । सेयमुपचाराल्लोभमूलता व्यसनवर्गद्वयस्योच्यते ॥ पानमक्षाः स्त्रियश्चैव मृगया च यथाक्रमम् ॥ एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणें ॥ ५० ॥ दिवा स्वप्नादिभ्योऽस्य चतुष्कस्य गणस्य बहुदोषतरत्वं प्रसिद्धमेव ॥ ५० ॥ दंडस्य पातनं चैव वाक्पारुष्यार्थदूषणे ॥ १०७ क्रोधजेsपि गणे विद्यात्कष्टमेतत्रिकं सदा ॥। ११ ॥ अयमपि त्रिकः पैशुनादिभ्यः पापीयानिति सुप्रतीतम् ॥ ११ ॥ सप्तकस्यास्य वर्गस्य सर्वत्रैवानुषंगिणः || पूर्व पूर्व गुरुतरं विद्याद्यसनमात्मवान् ।। ५२ ।। पानद्यूतयोः पानं गरीयः । तंत्र हि संज्ञाप्रणाशः । अनुन्मत्तस्योन्मत्तत्वं अप्रेतस्य प्रेतत्वं कौपीनप्रकाशनं श्रुतप्रज्ञाप्रहाणं मित्रहानिः सद्भिर्वियोगः । असद्भिश्च संप्रयोगः।गीतादिष्वर्थघ्नेषु प्रसङ्गः । रतमन्त्रप्रकाशनं च मानिनोऽप्युपहास्यता गम्भीर प्रकृतेरपि १५: यत्किञ्चनवादित मदवेगेनेति पानदोषाः । 1 १२ I द्यूते तु जितमेवाक्षविदुषा अनक्षज्ञस्यापि पाक्षिकः पराजयः । स्त्री द्यूतव्यसनयो द्यूतव्यसनं गरीयः । येन तदेव जितं द्रव्यं तस्यापि विषं भवति । तथा च तन्निमित्तो वैरानुबन्धः जयः साधारणः केवलं पराजयः भुक्तनाशः । मूत्रपुरीषत्रेगधारणाच्च शरीरे शैथिल्यं व्याधिनिदानमेव । *ते क्षुद्रादिभिः स्वपीडातिशयात् । मातर्यपि च मृतायां दीव्यत्येव । २०१ कृतकृत्येषु च न सुहृद्भिरपि कृष्यते । तप्तायसपिण्डवत् परद्रव्याणि परिहरतो न प्रत्ययते च । क्षुधिते दुर्गतेऽन्नाद्युपपत्त्युपेक्षा विषयता सर्वगुणसंपन्नस्यापि तृणवदवज्ञायेत इति द्यूतदोषाः । स्त्रीव्यसने त्वपत्योत्पत्तिः प्रतिकर्म भोजनभूयिष्ठानुभवनं धर्मार्थपरिग्रहः शक्या च स्त्री राजहिते नियोक्तुमपत्राहयितुं वा । स्त्री मृगयाव्यसनयोः स्त्रीव्यसनं गरीयः | अदर्शनं कार्याणां स्त्रीव्यसनसंगेन २५ राजकार्येषु च निर्वेदः कालातिपातनं धर्मलोपः पानदोषानुबन्धः अर्थनेषु चानृतादिषु प्रसंग इति । For Private And Personal Use Only १०. १ ख- ड-क्ष- पैशुनादिषु ते गच्छन्ति । २ ख-ड- ह्यल्पके विषये । ३ ख -ड-क्ष- यः समुपचारालोभमूलता । ४ ख - इ -क्ष- गण । ५ ख-ड-क्ष-तत्र संज्ञाप्रणाशः । ६ ख -ड-क्ष- द्यूतप्रज्ञाप्रहरणं । ७ ख-ड-क्ष-मानिनोऽप्ययश गम्भीर - ८ ख-ड-क्ष-वादिना मेदयोगेनेति । ९ फ-पानदोषः । १० ख-ड-क्ष-विषीभवति । ११ ख- ड-क्ष- शरीरल्य । * एतच्चिहान्तर्गतं ख-ड-क्ष-पुस्तकेषु नैव दृश्यते । १२ ख-ड-क्ष- गमनेन । १३ ख-ड-क्ष- कल्पेतिपतनं ।
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy