________________
Shri Mahavir Jain Aradhana Kendra
१०६
मेधातिथिभाष्यसमलंकृता ।
तानीदानीं व्यसनानि स्वनामतो दर्शयति मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ ४७ ॥
आखेटकार्थे मृगवधो मृगया । अक्षस्तद्विषयक्रीडा । एतयोस्त्वानर्थत्वं प्रसिद्धम् । १ दिवास्वमः कर्मानुष्ठानकाले कर्मस्वव्यापारः । न दिवाशब्देनाहरेव विवक्षितम् । तदुक्तं “जागर्तव्ये प्रसुप्तकेति”। अथवा मुख्य एव दिवा स्वप्नः । स हि प्रतिषिद्धः सर्वकार्यविघाती। स च दर्शनार्थिनामन्येषां तदसंपत्तेर्देष्यताजनक: प्रजासु । परिवादः रहसि परदोषवर्जनम् । तेन सर्वाः प्रकृतयो विरज्यन्ति अपरिवाद्यानां च परिवादेऽधर्मः स्थित एव । स्त्रियो मद इत्येतयोरनर्थरूपता सुप्रतीता । तौर्यत्रिकं नृत्यगीतवादित्राणाम् । वृथाट्या १० अप्रयोजनमीषत्प्रयोजनं वा इतस्ततश्च परिभ्रमणम् । दश परिमाणो दशकः । कामजः काम इच्छा । ततो जायते विशिष्टसुखोपभोगार्थो वा अनुभूतविशेषाद्वा जायमानः
www. kobatirth.org
कामजः || ४७ ॥
१५
Acharya Shri Kailassagarsuri Gyanmandir
पैशुन्यं साहसं द्रोह ईर्ष्याऽसूयाऽर्थदूषणम् ॥
वाग्दण्डजं च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥ ४८ ॥
अमात्यादितो ये सुकृतबान्धवास्तत्र यन्त्रगोपनीयं तस्य प्रकाशनं पैशुन्यम् । साहसं ज्यायसो नीचकर्माणि विनियोगः । स्वल्पेनैवापराधेन कराधानं करावरोधो वा । द्रोह उपांशुवधः । तत्रोपघातो वा जीवत एवेर्ष्या । सर्वसाधारणस्य विषयस्य साधारण्यव्यावृत्तिः । असहनं वा गुणिनां गुणेषु दोषाविष्करणं असूया | अर्थदूषणं अर्थानमिदानं हरणं वा । वाग्दण्डपारुष्ये प्रसिद्धे । क्रोधो द्वेषः । तत्प्रधाना एतत्कुर्वन्ति ॥ ४८ ॥ द्वयोरप्येतयोर्मूलं यं सर्वे कवयो विदुः ॥
२०
तं यत्नेन जयेल्लोभं तज्जावेतावुभौ गणौ ॥ ४९ ॥
उक्तं तावत्कामस्य व्यसनवर्गस्य लोभो मूलम् । विषयोपभोगस्पृहा कामः । इच्छा अभिलाषो लोभः इत्यनर्थान्तरम् । यतः क्रोधजस्य कथं लोभो मूलं येनोच्यते । “ तज्जावेतावुभौ गणाविति ” । उच्यते । नत्र लोभकारणता तयोर्वर्गयोरभिप्रेता । किं तर्हि २५ वर्गद्वयतुल्यता लोभस्य । यमेतानि सर्वाणि व्यसनान्यनर्थमुपजनयन्ति तमेवैको लोभो व्यसनहीनस्यापि । तदुक्तं “लोभः सर्वगुणानिव'" इति । अत उपचारत एतदुक्तं तज्जावे
[ सप्तमः
For Private And Personal Use Only
१ ख-ड-क्ष-रहसि च परदोषवर्जनं । २ ख-ड-क्ष- परिवादः । अधर्मस्थित एव स्त्रियो मद ह योनर्थता । ३ फ अमात्यादयो । ४ ख-ड-क्ष-तत्र योत्र योपयंति । ५ ख-ड-क्ष-व्यायामो ६ ख - ब-क्ष-अपघातो । ७ ख -ड-क्ष- वार्जवेनाव ईर्ष्या । ८ ख-ड-क्ष- विषस्य । ९ ख-ड-क्षगुणानां । १० ख-ड-क्ष - अर्थानां मदेनोपहरणं वा । ११ ख- ड-क्ष- गतः । १२ ख-ड-क्ष- मात्र ।