________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
मनुस्मृतिः ।
यद्यपि दण्डनीत्याऽप्यस्य सर्वलोकः शक्यते ज्ञातुं अन्वयव्यतिरेक मूलत्वादस्यार्थस्य बुधोधनार्थानि तानि शास्त्राणि बुधानां च संवदार्थाीति युक्तो दण्डनीतिशास्त्राधिगमः । एवं आन्वीक्षिक्यपि तर्कविद्यार्थशास्त्रादिका । आत्मविद्याऽध्यात्मविद्या । विशेषणविशेष्ये वा पदे आत्मने या हिताऽऽन्वीक्षिकी सौ तर्काश्रयों तां शिक्षेत सा त्युपयुज्यते । व्यसनाभ्युदयोपरमचित्तसंक्षोभोपशमाय । या तु बौद्ध चार्वाकादितर्कविद्या ५ सानातीत्रकृत्वा कचिदुपयुज्यते । प्रत्युतास्तिक्यमुपहन्ति यो नातिनिपुणमतिः । यदा तु स्वतंत्रामान्वीक्षिकीं वेद तदा तस्य दूतसंवादादिषु वाक्यवैशद्यानामुपयोगो नोपहास्यो भवति । वार्तारम्भांव पण्यानामर्थपरिज्ञानं वाणिज्यकौशलं समयेन बार्हस्पत्येन तत्र परिज्ञानं वार्ता । तन्निमिर्त्ता आरम्भा वार्तारंभाः । वार्तास्वरूपं ज्ञात्वा तद्विषयकांर्या प्रवृत्तिरारंभः । एतल्लोकतो विद्यात् । वणिज्याजीवनोऽत्र लोकोऽभिप्रेतः । ते हि तत्र कुशला १० भवन्ति । लोकत इति च पूर्वयोरनुषङ्गः कर्तव्यस्तेन सर्वत्र तद्विद्भय इति लभ्यते ॥ ४३ ॥ इन्द्रियाणां जये योगं समातिष्ठेद्दिवानिशम् ॥
।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः ॥ ४४ ॥
इन्द्रियजयस्य ब्रह्मचारिधर्मेषु सर्वपुरुषार्थतयोपदिष्टस्य पुनरिहोपदेशो राजधर्मेषु मुरूयोऽयं विनय इति ज्ञापयितुम् । तदिदमाह जितेन्द्रिय इत्यादि । सर्वस्यैतत्प्रसिद्धं १५ अजितेन्द्रियस्य न प्रजा वशे तिष्ठन्ति । योगस्तात्पर्यम् । दिवानिशमहोरात्रम् ॥ ४४ ॥ दश कामसमुत्थानि तथाऽष्टौ क्रोधजानि च ॥ व्यसनानि दुरन्तानि प्रयत्नेन विवर्जयेत् ॥ ४५ ॥ इदमपरमिन्द्रियजयोपदेशस्य प्रयोजनम् । अनितेन्द्रियस्य दुष्परिहराणि व्यसनानि । दुरन्तानि दुःखकरोऽन्तोऽवसानं येषाम् । प्रथमं प्राप्तिकाले सुखयन्ति व्यसनानि पश्चात्तु २० वैरस्यं जनयन्ति ततो दुरन्तान्युच्यन्ते । अथवा दुष्प्रापोऽन्त एषाम् । न हि व्यसनिनस्ततो निवर्तितुं शक्नुवन्ति । कामाद्धेतोः समुत्थानं जन्म येषाम् ॥ ४५ ॥
I
एषां वर्जने प्रयोजनमाह । गुरुलघुभावं च ।
कामजेषु प्रसक्तो हि व्यसनेषु महिपतिः ।।
वियुज्यतेऽर्थधर्माभ्यां क्रोधजेष्वात्मनैव तु ॥ ४६ ॥
अर्थधर्मवियोगेन व्यवहित आत्मवियोग: । क्रोधजेषु सर्वैर्वियुज्यत इति विशेषः ॥ ४६॥
५०९
For Private And Personal Use Only
२५
१ खडक्ष - यथापि । २ ख-ड-क्ष-संवादार्थो नीतिशास्त्राधिगम एव नान्वीक्षिक्यपि तर्कविद्या | ३ ख-ड-क्ष-विशेषणं । ४ फ-आन्विक्षिकी तर्काश्रया । ५ ख-ड-क्ष- तर्कसंश्रयणम् । ६ ख-ड-क्षबौद्धाचार्यदिकी विद्या । ७ ख - वाक्यावेशाद्येन उपभोगः; ड-क्ष-वाक्यावेशारघेन उपभोगः नापोहास्ये भवति । ८ ख-ड-क्ष- तन्निमित्ता वाहरेयास्य न तत्र परिज्ञानं । ९ फ-कार्याय । १० ख-ड-क्ष-न हि । ११ ख- ड-क्ष- ज्ञानयितव्यमन्यामहे जितेन्द्रियोर्हित्यादि । १२ फ-वैरस्य । १३ ख -ड-क्ष- जनयति ।
*