________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र.
६०२ मेधातिथिभाष्यसमलंकृता ।
[ सप्तमः यदि शक्यन्ते रक्षितुं तदा न हन्यन्ते । स्निग्धेषु सुहृत्सु अजिह्मोऽकुटिलबुद्धिः । कार्यसिद्धिकृत्तत्कार्ये प्रधानं स्यात् ॥ ३२ ॥
एवंवृत्तस्य नृपतेः शिलोच्छेनापि जीवतः ॥ विस्तीर्यते यशो लोके तैलबिन्दुरिवभिसि ॥ ३३ ॥
प्रक्रान्तवृत्तेः स्तुतिरियम् । शिलोच्छेनापि जीवतोऽत्यन्तक्षीणकोशस्य विस्तीर्यते यशः प्रथते । ततश्च परराष्ट्राणि स्वयं नमन्ते स्वराष्ट्रिकश्चानुरागादविचलितो भवति ॥ ३३ ॥
अतस्तु विपरीतस्य नृपतेरजितात्मनः ॥
संक्षिप्यते यशो लोके घृतबिन्दुरिवाम्भसि ॥ ३४ ॥ । अतो वृत्ताद्विपरीतस्य चलितस्य । अत्र हेतुरजितात्मता । यथाशास्त्रमनियतात्मा. यः ॥ ३४ ॥
स्वे स्वे धर्मे निविष्टानां सर्वेषामनुपूर्वशः॥ ___ वर्णानामाश्रमाणां च राजा सृष्टोऽभिरक्षिता ॥ ३५ ॥
स्वधर्माणां च राजा सृष्टोऽभिरक्षिता । स्वधर्मनिष्ठानामपालने राज्ञः प्रत्यवायो १५ धर्मच्युतास्तु यदि केनचिदुपहन्येरन् न तत्र राज्ञोऽतीव दोष इति स्वे स्वे धर्म इत्यनेन
दर्शयति । अथवा न लिप्यते अनिविष्टानामिति । ये तु शास्त्रान्मित्राद्युपदेशाद्वा स्वधर्मापन्नाः न तेषां राजा द्वैधेनें वर्तेत । वर्णग्रहणं स्त्रीबालवृद्धानां रक्षार्थम् । न हि ते आश्रमस्थाः । आश्रमग्रहणं तर्हि किमर्थ ? प्राधान्यार्थम् । ब्राह्मणवसिष्ठवत् । प्रयोजननिर्देशो वाऽयम् । आश्रमसन्ध्योपासनादिधर्माच्चलितुमेषामकरणान्नु । न चैवं दण्डाद्यपघातः कर्तुमेतेषां देयः । इतरथा बाधापरिहारः । एवं रक्षा विज्ञायन्ते । संन्ध्योपासनाद्यपकरणेषु नामान्यस्य कस्यचिद्भवति । द्विरूपा राज्ञः कर्तव्यतेति वर्णाश्रमग्रहणम् । एतदेवोक्तं " वर्णानाश्रमांश्च न्यायतोऽभिरक्षेदिति " ॥ ३५ ॥
तेन यद्यत्सभृत्येन कर्तव्यं रक्षता प्रजाः ॥
तत्तद्वोऽहं प्रवक्ष्यामि यथावदनुपूर्वशः॥३६॥
वक्ष्यमाणावबोधार्थः श्लोकः । तेन राज्ञा सभृत्येन तदीयैः सहायैर्यत्कर्तव्यं प्रजारक्षणार्थं तदिदानीमुच्यते ॥ ३६ ॥
२५
१ फ-वृत्तिः खडक्ष-कुटिलवृद्धिः । २ खडक्ष-कार्यसिद्धिः कृतकार्यसिद्धिः कृतकार्यप्रधानः स्यात् समानाभ्युदयः प्रत्यवायाः सुहृदः स्निग्धाः । ३ खडक्ष-यथाशास्त्रमनियतीति न्यायः । ४ फ-पुत्रा । ५ फ-प्रमुखेन । ६ फ-प्रकरणेषु । ७ फे-बाधनाथश्लाकः ।
For Private And Personal Use Only