________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
४९९ स्वस्मात्कार्यकालान्नियतान्न विचलेताम् । कदाचिढ़े अहनी त्रीणि वा नोदियात्सूर्यः सति स्वातन्त्र्ये । दण्डात्तु बिभ्यन्नातिकामति मर्यादाम् । तथा च श्रुतिः ___“ भयात्सूर्यः प्रतपति भयात्तपति चंद्रमाः । भयादग्निश्च वायुश्चेति " दानवादयश्च यदिदमखिलमहर्निशं न जगदुपघ्नन्ति दण्डमाहात्म्यमेतत् । पतङ्गवयांसि गृहमण्डनाः शुकसारिकादयो यद्वालानामक्षिणी नोत्पाटयन्ति श्येनकाककङ्कगृध्रादयो यज्जीवतो ५ नादन्ति तदप्येवमेव । उरगाः सर्पाः केवलं क्रोधविषात्मकाः संभूय सर्वे न दशन्ति सर्व प्राणिजातं तद्दण्डसामर्थ्यम् । अतः स्तुतिरेषोच्यते । यद्देवादयो महर्धिका अचेतना वा स्वर्मर्यादातो न विचलन्ति भयात्कि पुनर्मनुष्याः । अत्र श्लोकः पूर्वैः पठितः ॥ " दृष्ट्वा तु दैन्यं वनपाटलानां पुष्पप्रगल्भं कुटजप्रहासम् ।। संबन्धदानेन तदा जहास नीपोऽपि रन्ध्र प्रहरत्यवश्यम् " ॥ इति ॥ २३ ॥ १.
दुष्येयुः सर्ववर्णाश्च भिधेरन्सर्वसेतवः ॥
सर्वलोकप्रकोपश्च भवेद्दण्डस्य विभ्रमात् ॥ २४ ॥ दण्डस्य विभ्रमोऽकरणमन्यायेन वा करणम् । तस्मिन्सति सर्ववर्णा दुष्येयुः । इतरेतरस्त्रीगमनेन संकरप्रवृत्तेः । सेतवो मर्यादाः । ताः सर्वा भिधेरन् । सर्वमर्यादापरिलोपः स्यादित्यर्थः । ब्राह्मणाश्च शूद्रवद्वतेरञ्छूद्राश्च ब्राह्मणवत् । अतश्च सर्वलोकप्रकोपः १५ स्यात् । त्रयोऽपि लोका इतरेतरं वृष्टयातपादिना नोपकुर्यः ॥ २४ ॥
यत्र श्यामो लोहिताक्षो दण्डश्चरति पापहा ॥
प्रजास्तत्र न मुह्यन्ति नेता चेत्साधु पश्यति ॥ २५॥ एतब्दयं मनुष्याणां प्रशस्ततमम् । अतस्तेनासता रूपकभंग्या स्तौति । द्विरूपो दण्डः । दुःखदो भयदश्च । भयहेतुत्वं श्यामतया । दुःखहेतुत्वं लोहिताक्षत्वेन । परि- २० समाप्ता दण्डस्तुतिः । दण्डोऽवश्यं कर्तव्यः । स च देशाद्यपेक्षयति । अन्यः सर्वोs र्थवादः । नेता चेत् । नेता दण्डस्य नायकः । स चेत्साधु पश्यति सुनिरूपितं डे' लादिकं कृत्वा पालयति तत्र प्रजा न मुह्यन्ति न केनचिद्दोषेण युज्यन्ते ॥ २५ ॥
तस्याहुः संप्रणेतारं राजानं सत्यवादिनम् ॥ ___ समीक्ष्यकारिणं माझं धर्मकामार्थकोविदम् ॥ २६ ॥ २५
इदं संप्रणेतुः साधु दर्शनं सत्यवादिता समीक्ष्यकारिता प्राज्ञता त्रिवर्गे कौशलं च । सत्यवादी यः शास्त्रानुसारितया दण्डं कृत्वा कुतश्चिन्महाधनत्वं विज्ञाय न तं
१ डक्ष-सर्वलोपः।
For Private And Personal Use Only