________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४९
मेधातिथिभाष्यसमलंकृता ।
[सप्तमः
धृतः प्रणीतः प्रवर्तितः समीक्ष्य पूर्वोक्तदेशकालाद्यपेक्ष्य समीक्ष्य । रञ्जयत्यनुरागं प्रजासु जनयति । विपरीतं प्रणीयमानो न केवल स्वकार्य न करोति यावदुरुपयुक्तो विषवद्विनाशयत्यर्थं जनस्य ॥ १९ ॥
यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः ॥ शूले मत्स्यानिवापक्ष्यन्दुर्बलान्बलवत्तराः ॥ २० ॥
अप्रणयनाद्दण्डस्य ये बलवत्तरा बलीयांसो बलेनाधिका महाप्राणतया शस्त्रहस्तमनुष्या भूयस्त्वेन वा ते दुर्बलानपक्ष्यन् शूले मत्स्यानिव यथा मत्स्या शूल्या क्रियन्ते भोजनार्थमेवमशक्तो जनोऽधिकशक्तिमिरुपहीयेत धनशरीरदारहरणादिना तस्माद्दण्डाऱ्या
नतन्द्रितोऽनलसो दण्डयेत् । कुतो मया समीक्षा शक्या कर्तुं नैव दण्डं करोमीति १० नैवं बुद्धिः कर्तव्या ॥ २०
अद्यात्काकः पुरोडाशं श्वावलिह्याद्धविस्तथा ।।। स्वाम्यं च न स्यात्कस्मिंश्चित्प्रवर्तेताधरोत्तरम् ॥ २१ ॥
श्वकाकादयोऽप्यत्यन्ताधमा देवैः सह संस्पर्धेरन् । देवेभ्यो दातव्यं हविश्वरुपुराडाशादि तत्ते अधुर्यदि दण्डेन न निवार्येरन् । अन्यदपि यत्स्वाम्यं स्वस्वामिभावः १५ स न स्यात् । जायापत्योः पितापुत्रयोः । जायायाः पतिर्न स्यात्स्वातन्त्र्येण स्त्रियः
प्रवर्तेरन् । अधरोत्तरं यदधरं वृषलादि तदुत्तरं प्रधानं स्यात् । यदुत्तरं ब्राह्मणादि तदवरता निकृष्टतामियात् । शुद्रा धर्ममुपदिशेयुः । वैदिको धर्मो नानुष्ठीयेतं ॥ २१ ॥
सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्नरः ॥ दण्डस्य हि भयात्सर्वं जगद्भोगाय कल्पते ॥ २२ ॥
स्वभावेनैव प्रकृत्यैव शुचिः शुद्धो धर्मार्थकामेषु स तादृशो नरो दुर्लभः दुःखैलब्धुं शक्यः । किंतु दण्डजितो दण्डेन जीयते पथि स्थाप्यते । तद्भयान्न यथाकामं प्रवर्तते । जगद्भोगायेति प्रागुक्तमेव ॥ २२ ॥
देवदानवगन्धर्वा रक्षांसि पतगोरगाः॥ तेऽपि भोगाय कल्पन्ते दण्डेनैव निपीडिताः ॥ २३ ॥
ये देवाः पर्जन्यो वायुरादित्य इत्यादयः । भोगाय कल्पन्ते शीतोष्णवर्षेनियतैरोषधीः पाचयन्ति तद्दण्डभयाशङ्किनः । अन्यथा किमिति सूर्याचंद्रमसौ धातृपर्जन्यौ वा
१ डक्ष-नानुष्ठीयताम् ।
For Private And Personal Use Only