________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः] मनुस्मृतिः।
४९७ सर्वतो व्याप्तदेशत्वाच्छित्वाऽगारीक्रियते । एतया वृक्षोपमया दण्ड्यस्य राजापथ्यकारिणः पुरुषस्यैवं कर्तव्यं च्छेदनमूलोत्पाटनादिना दण्डः प्रणेयः । स्थावरग्रहणस्तुत्या दृष्टान्तार्थमीदृशोऽयं दण्डो यत्स्थावरी अपि दण्ड्यन्ते किं पुनश्चराः । न तु स्थावराणां दण्डोऽयमित्येषा बुद्धिरस्ति । स्वधर्मान्न चलन्ति अकाले न पुष्यन्ति न प्रसुवते ॥१५॥
तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्वतः ॥
यथार्हतः संप्रणयेन्नरेष्वन्यायवर्तिषु ॥ १६ ॥ अन्यायवर्तिनो ये राजापथ्यकारिणो महामात्यादयस्तेषामयं दण्ड उच्यते । अन्येषां तु परस्परव्यवहारिणामनुबन्धमनुज्ञात्रापरिज्ञायेत्यत्रोच्यते । तत्रैव चायं श्लोको व्याख्यातः । विद्याऽत्राधिका सा च वेदार्थविषया । यथार्हतः यथाहै यो यस्य योग्य इत्यर्थः। संप्रणयेत् प्रवर्तयेत्कुर्यादिति यावत् । एतत्सर्वमवेक्ष्य निरूप्य तत्तदपेक्षो १० दण्डः कर्तव्यः । अन्यथाप्रणीतो राज्ञो दृष्टमनर्थमावहेत् । दृष्टादृष्टभेदेन स्वप्रकृतिजनपदभेदेन सप्तमाष्टमयोर्दण्डमातृका-श्लोकयोर्भेदः ॥ १६ ॥
स राजा पुरुषो दण्डः स नेता शासिता च सः॥
चतुर्णामाश्रमाणां च धर्मस्य प्रतिभूः स्मृतः ॥ १७ ॥ स एव वस्तुतो राजा । तस्मिन्सति राजशक्तिः । स एव पुरुषः । येन बलीयसोऽपि १५ पुरुषान् स्त्रीवन्न्यकृत्य वशीकरोति । स नेता कार्याणि तेन नीयन्ते । शासिता । शासनं राजाज्ञा तस्याः शासनीमावः दण्डे सति । धर्मतः कर्तृत्वमौपचारिकम् । चतुर्णामाश्रमाणां यो धर्मस्तत्र स प्रतिभूरिव । यथा प्रतिभूश्चलितुं न ददाति तद्वद्दण्डोऽपि ॥ १७॥
दण्डः शास्ति प्रजाः सर्वा दण्ड एवाभिरक्षति ॥
दण्डः सुप्तेषु जागति दण्डं धर्म विदुर्बुधाः ॥ १८ ॥ न राजा शास्त्रं शास्ति कर्तव्याकर्तव्योविधिनिषेधयोः किं तर्हि दण्ड एव । दण्ड एवाभिरक्षति बलवद्भयोर्दुर्बलान् । सुप्तेषु राजपुरुषेषु दण्डभयादेव न यथाकामं लोको व्यवहरति । द्विविधो दण्डो राजदण्डो यमदण्डश्च ॥ १॥
समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः॥ असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ १९ ॥
१ ख-ड-क्ष-यत्स्थावराण्यपि-चराणि । २ ख-ड-क्ष-दण्डयमाह । ३ ख-ड-क्ष-तदपेक्षं । ४फ-राजशक्तियोगे । ५फ-तस्याभावे दण्डः स्मृतः। ६ख-ड-क्ष-राजशास्त्र।
६३
For Private And Personal Use Only