SearchBrowseAboutContactDonate
Page Preview
Page 539
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४९६ मेधातिथिभाष्यसमलंकृता । [ सप्तमः राज्ञा तद्विनाशार्थमपराधेन मनसि स्थितेन बाध्यत एवासौ शक्तिमत्वाद्राज्ञः प्रयतमानस्य स्वतन्त्रविरोधीपत्तेः ॥ १२ ॥ तस्माद्धर्म यमिष्टेषु स व्यवस्येन्नराधिपः॥ अनिष्टं चाप्यनिष्टेषु तं धर्म न विचालयेत् ॥ १३ ॥ यतः सर्वतेनोमयो राजा तस्माद्धेतोरिष्टेषु वल्लभेषु मन्त्रिपुरोहितादिषु कार्यगत्या धर्म कार्यव्यवस्थां शास्त्राचाराविरुद्धां व्यवस्येनिश्चित्य स्थापयेन्न विचालयेत् । सा तादृशी राज्ञोऽनुज्ञा नातिक्रपणीया । अद्य पुरे सर्वैरुत्सवः कर्तव्यः । मन्त्रिगेहे विवाहो वर्तते । तत्र सर्वैः संनिधातव्यम् । तथा पशवो नाद्य सैनिकैर्हन्तव्या न शकुनयो बन्धयितव्याः । नर्तिका धनिकैराराधनीया एतावन्त्यहानि । एवमनिष्टेष्वपि । एतेन संसर्गो न कर्तव्य एतस्य गृहे प्रवेशो न देयः । एवंविधोऽत्र धर्मः पटहघोषादिना राज्ञाऽऽदिष्टो नातिक्रमणीयः। न त्वग्निहोत्रादिधर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति । स्मॅत्यन्तरविरोधप्रसङ्गात् । अविरोधे चास्मिन्विषये वचनस्यार्थवत्वात् ।। १३ ॥ तदर्थ सर्वभूतानां गोप्तारं धर्ममात्मजम् ॥ ब्रह्मतजोमयं दण्डमसृजत्पूर्वमीश्वरः॥ १४ ॥ .. उक्ता राजोत्पत्तिः:। दण्डोत्पत्तिरिदानीमुच्यते । तस्मा इदं तदर्थ र ज्ञः प्रयोजनसिद्धये दण्डमसृजदीश्वरः प्रजापतिः। को राज्ञोऽर्थों दण्डेन ? उच्यते । गोप्तारं सर्वभूतानां गोप्ता रक्षिता दण्ड एव न दण्डेन विना राजा रक्षितं शक्नोति । अतो राजत्वसिद्धयर्थ एव दण्डः सृष्टः । धर्ममात्मजं ब्रह्मतेजोमयमिति दण्डस्तुतिः न यागदानादिधर्मः ।। किं तर्हि दण्ड एव । न चायं प्राणधनहारित्वादधमो विज्ञेयः । अपि त्वेष एव धर्म आत्मजः २० शरीरादेव जातः प्रजापतेः । न च पाञ्चभौतिकः । किंतर्हि ब्राह्मणो यत्केवलं तेजस्तेन निर्मितः पूर्व राजसृष्टेः ॥ १४ ॥ तस्य सर्वाणि भूतानि स्थावराणि चराणि च ॥ भयाद्भोगाय कल्पने स्वधर्मान्न चलन्ति च ॥१५॥ तस्य दण्डस्य भयात् । संबन्धिमात्रविवक्षायां भयहेतुत्वं नास्तीति षष्ठी । २५ दण्डभयात्स्थावराणि भूतानि भोगाय फलकुसुमच्छायादिभिर्भोगार्थ कल्पन्ते तत्समर्था भवन्ति । यो हि स्थावरः फलं न ददाति स परिशोष्यते । न चेत्परिशुष्यति १ ख-ड-क्ष-विरोधो जायते । २ ख-ड-क्ष-कार्य धर्म । ३ ख-ड-क्ष-न कर्तव्य एव । तस्य गृहे- । ४ ख-ड-क्ष-व्यवस्थायैव; क्ष-व्यवस्थयव । ५ ग्व-ड-क्ष-स्मृत्यन्तरविरोधेषु चास्मिन्विषये बचनस्यार्थत्वात् । ६ फ-तस्यार्थे । ७ अ-क-ख-ड-ब-श-को राज्ञा दंडेन उच्यते । ८ अ-क-खड-ब-क्ष-संगोप्तारं । ९ अ-क-ख ड-ब-क्ष-धर्मजंदनब्रह्मा । For Private And Personal Use Only
SR No.020474
Book TitleManusmruti
Original Sutra AuthorN/A
AuthorJ R Gharpure
PublisherJ R Gharpure
Publication Year1920
Total Pages1103
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy