________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः]
मनुस्मृतिः। एकमेव दहत्यग्निर्नर दुरुपसार्पणम् ॥
कुलं दहति राजाग्निः सपशुद्रव्यसंचयम् ॥९॥ अस्य विधेरर्थवादश्लोका एते । राजधर्मोऽपि सन् सर्वपुरुषार्थोऽयम् । प्रायोऽग्निं हस्तादिना स्पृशति समिद्धस्याप्यन्तिको भवति स दुरुपमर्पिनरः प्रमादस्खलितो दह्यते । राना तु क्रुद्धः सपुत्रधनदारबान्धवं दहति । कुलं ये केचिद् ज्ञातयः स्वजनाश्च । तानप्य- ५ पराधसंबन्धात्पशेभिर्धनसंचयैश्च सह नाशयति ॥ ९ ॥
___ कार्य सोऽवेक्ष्य शक्तिं च देशकालौ च तत्त्वतः।। ___ कुरुते धर्मसिद्धयर्थं विश्वरूपं पुनः पुनः ॥ १० ॥
नैतन्मन्तव्यं बन्धुर्मे राजा सुहृद्वेति । " कस्य राजा भवेन्मित्रं कानि मित्राणि राजनि" । प्रयोजनापेक्षया च शत्रौ मित्रवदाचरन्ति मित्रे शत्रुवत् । तथाऽशक्ताः १० कंचिंदपराधं क्षमन्ते । शक्तिं प्राप्योन्मूलयन्ति । एवं देशकालावपि । अतो धर्मसिद्धयर्थ कार्यसिद्धयर्थ विश्वरूपं कुरुते क्षणान्मित्रं क्षणेन शत्रुः नैकरूप एव राना भवति । अतो न विश्वसितव्यं राननि । मैच्याद्वाल्लभ्यात्सौजन्याद्वा तत्तुल्यवयो दृष्टया न वर्तितव्यम् । अपि तु सर्वदा नयेन द्रष्टव्यः ॥ १९ ॥
यस्य प्रसादे पद्मा श्रीविजयश्च पराक्रमे ॥
मृत्युश्च वसति क्रोधे सर्वतेजोमयो हि सः॥ ११ ॥ प्रसन्न आराधनया श्रियं ददाति । क्रुद्धो मृत्युना योनयति । अतः श्रीकामेनाराधनीयः । न केवलं श्रिया योजयति यावदस्य शत्रवः सन्ति तानपि पराक्रम्य परितोषितो हन्ति । अतः शत्रुवधकामेन यथावत्परिचरणीयः । पद्मा श्रीः पर्यायोऽपि पद्माशब्दो महत्वप्रतिपादनार्थः प्रयुक्तो महतीं श्रियं ददातीत्यर्थः । एते चार्था राज्ञः प्राप्यन्ते । यतः २० सर्वतेजोमयोऽसौ अग्न्यादित्यचंद्रमसां तेजो बिभर्ति ॥ ११ ॥
तं यस्तु द्वेष्टि संमोहाँत्स विनश्यत्यसंशशम् ॥
तस्य ह्याशु विनाशाय राजा प्रकुरुते मनः ॥ १२ ॥ प्रत्यवायाद्यथा विन्दति जनो नैवमभिप्रेतार्थलोभेनातः पुनः पुनराह । तं राजानं यो द्वेष्टि प्रातिकूल्येन वर्तते तस्मिन्स त्वसंशयं नश्यति । तस्य ह्याशु विनाशाय । २५ अन्यः कश्चिदपराधं क्षमते अशक्यराजनिवेदनेन । तत्र व्यवहारभागस्य धनपरिक्षयो भवति । भतोऽप्यथः साक्षिणां चित्तवैचिच्यादन्यथात्वमायाति ह्यपेक्ष्यमाणः कश्चित्क्रमेणापि ।
१फ-यतः । २ फ-योऽनिं । ३ अ-ड-क्ष-सहञ्चसन्नत्र कबंधी भवति । तदुपाससप्रमादान्मूलितो ददाति । ४ फ-हन्ति । ५ अ-ड-क्ष-असुभिः । ६फ-किंचित् । ख-ड-क्ष-तं मोहात्। ८ फ-सत्यंशयं ।
For Private And Personal Use Only