________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ श्री ॥
॥ श्रीगणेशाय नमः ॥
॥ अथ सप्तमोऽध्यायः प्रारभ्यते ॥
राजधर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः ॥ संभवश्च यथा तस्य सिद्धिश्च परमा यथा ॥ १ ॥
धर्मशब्दः कर्तव्यतावचन इत्युक्तम् । यद्राज्ञां कर्तव्यं तदिदानीमुच्यत इति प्रतिज्ञा । कर्तव्यं च दृष्टार्थ षाड्गुण्यादि अदृष्टार्थमग्निहोत्रादि । तत्रेह प्राधान्येन दृष्टार्थमुपदिश्यते । तत्रैव च राजधर्मप्रसिद्धिः । राजशब्दस्तु नेह क्षत्रियजातिवचनः किंतर्ह्यभिषेकाधिपत्यादिगुणयोगिनि पुरुषे वर्तते । अत एवाह । यथावृत्तो भवेन्नृपः । नृपग्रहणेन जनपदैश्वर्यवतोऽधिकारमाह । प्रमाणान्तरमूला ह्यत्र धर्मा उच्यन्ते । न सर्वे वेदमूलाः अन्यमूलत्वे च १० यदत्र धर्मशास्त्राविरुद्धं तदुच्यते । तथा च कात्यायनः " अर्थशास्त्रोक्तमुत्सृज्य धर्मशास्त्रोक्तमात्रजेदिति " । यथावृत्तः यद्वृत्तं यत्कारं वाऽस्येति च बहुव्रीहिः । अन्यपदार्थो राजा । यथार्थप्राधान्येऽव्ययीभावः स्यात् । वृत्तं परिपालनार्थो व्यापारोऽदृष्टार्थेश्च I संभवश्चोत्पत्तिः । स उक्त “राजानमसृजत्प्रभुः" इत्यादिना । परमा प्रकृष्टा सिद्धिर्विजि - गीषेोरैकाधिपत्यम् । राजवृत्तस्य फलप्रतिज्ञेयम् ॥ १ ॥ १५.
ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि ॥ सर्वस्यास्य यथान्यायं कर्तव्यं परिरक्षणम् ॥ २ ॥
५..
ब्रह्म वेदः। तत्कृतः संस्कारो ब्राह्मः । स वेदाध्ययनजन्यो ग्रहणवतोऽर्थलक्षणो वेदस्य स्वाध्यायविधिनिर्वर्त्य इत्यर्थः । उपनयनं तु ब्रह्मग्रहणार्थत्वाद्ब्राह्ममिति युक्तम् । तथा च वक्ष्यति (अग्रे ४३ श्लो.) “त्रैविद्येभ्यस्त्रयीं विद्यामिति” । इतरथा विदितवेदितोपदेशः स्यात् । २०गर्भाधानादिस्मृतिशास्त्रार्दष्टाचत्वारिंशसंस्कारम् | क्षत्रियेणेति । एतेन क्षत्रिय एव राज्याधिकारीति सूचितम् | क्षत्रियाभावे तदतिदेशोऽपि ग्राह्यः । अन्यथा प्रजालोपः स्यादिति भावः । सर्वस्य करदस्य दीनानाथा देश्चं । अस्येति स्वविषयवासिनां यथास्वं जनपदपुरनिर्देशः । यथान्यायं न्याय: शास्त्रं धर्मशास्त्ररूपं नार्थशास्त्रमोशनसादिप्रणीतं तमनतिक्रम्य । परिरक्षणं परिपालनम् । अपायपरिहारो दुर्बलानां बलवद्भिरनभिभवः शास्त्रमर्यादानति - २५. क्रमश्च । दुःखत्राणं परिरक्षा | शास्त्रातिक्रमे चादृष्टं दुःखम् । अतस्तदनतिक्रमे राज
For Private And Personal Use Only
१ क- राज्ञः । २ ण-दृष्टं । ३ ण च । ४ फ यदाकारं । ५ फ- अदृष्टार्थः । ६ फ-परमा सिद्धि - ७ फ-तत्र श्रुतः । ८ फ - शास्त्रादृष्टा - ९ ड - नाथादेशश्च ।